________________
नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२८५ थोड़ी देर तक ही हुआ। ( उक्त दोनों स्कन्धकों का अन्वय एक साथ होने से इनकी 'युग्मक' संज्ञा है ) ॥ १-२ ॥ अथ दशभिः स्कन्धकैः समुद्रस्य विश्राममाहगिरिसंखोहविमुक्का झीणा अप्पत्तपढमगमणोआसा । मन्दन्दोलणमउआ गआगअ चिन्न समुद्दसलिलुप्पीडा ॥३॥ [गिरिसंक्षोभविमुक्ताः क्षीणा अप्राप्तप्रथमगमनावकाशाः ।
मन्दान्दोलनमृदुका गतागता एव समुद्रसलिलोत्पीडाः ॥] पतनजन्याद् गिरिसंक्षोभाद्विमुक्तास्त्यक्ताः समुद्रसलिलानामुत्पीडा गतागता एव । प्रथमं गता उच्छलनवशात् ततः पर्वतानामप्रक्षेपाज्जलान्तरस्यानुत्थानात्कियद्रतः प्रतिनिवृत्त्यागता एव । जलस्य क्वचित्क्वचिन्निम्नप्रदेशे प्रविष्टत्वादल्पीभूय समुद्रं प्रविष्टा एवेत्यर्थः । तदुक्तं क्षीणाः। तत एवाविलम्बेनागता इत्येवकारार्थः । एवमप्राप्तः प्रथमगमनस्यावकाशो निम्नप्रदेशो यः । तेषां प्रथमगमन एव जलपूर्णत्वात्परावृत्ती संबन्धाभावात् । एवं मन्देनान्दोलनेन क्षोभेण मृदुकाः । उच्छलनहेतुवेगविरामेण परावृत्ती स्वारसिकतया मृदुगतय इत्यर्थः । वस्तुततु गिरिसंक्षोभेण विमुक्ताः समुद्रात्पृथक्कृता जलोत्पीडा गता गता एव । ये गता उच्छलितत्वात्ते गता एव न पुनः प्रत्यावृत्ता इत्यर्थः । तेनोच्छलनवेगप्रकर्ष उक्तः । अनागमने हेतुमाहक्षीणाः क्वचित्क्वचिद्विशीर्णाः । तदाह-अद्भिः प्राप्ताः पूरिताः प्रथमगमनस्याबकाशा निम्न प्रदेशा यस्मात् । अत एव सैन्याच्चिरकालीनत्वेन पूर्वसंस्कारापगमाच्च मन्दान्दोलनेत्यादि । उच्छलितजलस्य कियद्रे गतिमार्दवं भवतीत्याशयः । अप्राप्तः परावृत्त्यभावेनालब्धः प्रथमगमनप्रदेशो यैरिति केचित् ॥३॥ __बिमला-पर्वतों के संक्षोभ से पृथक् किये गये समुद्र के जलपूर उछल कर जब गये तो मन्द-मन्द कम्पनयुक्त मृदु गति से दूर भूमि तक चले ही गये और यत्र तत्र विशीर्ण हो, प्रथम गमन-प्रदेश को लौटकर पुनः नहीं आ सके ।। ३ ।। अथ समुद्रस्य पूर्वावस्थाप्राप्तिमाहभिण्णघडन्तावत्तो आवत्तन्तरभमन्तभिण्णमहिहरो। महिहरसंभमविहुओ विहुप्रणिअत्तसलिलो णिप्रत्तइ उअही ॥४॥ [ भिन्नघटमानावर्त आवर्तान्तरभ्रमद्भिन्नमहीधरः ।
महीधरसंभ्रमविधुतो विधुतनिवृत्तसलिलो निवर्तत उदधिः ॥] महीधरसंभ्रमेण गिरिसंक्षोभेण विधुत आन्दोलितः समुद्रो निवर्तते गिरिपतनाभावेन पूर्वावस्थां लभते । किंभूतः । भिन्नाः प्रथमं पर्वतपातेन विशकलिताः पश्चातदभावेन घटमानास्तत्रैव यथापूर्व प्रवृत्ता आवर्ता यत्र । एवमावर्तान्तरे भ्रमन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org