________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२७५
वानराणां भुजैः शैलास्तैरपि द्रुमास्तैरपि मेघसंधाता धृताः । अतो न ज्ञायते कि प्लवगा अनेन प्रकारेण सेतु बध्नन्ति उत पक्षान्तरे नभस्तलं मिन्वन्ति मापयन्ति । गगनगाहिनः सेतोर्गगनमापनस्यापि सामग्रीयमिति भावः । तवयमपि दुष्करं प्लवगसाध्यमेवेत्याशयः । 'न विज्ञायते' इति वा ॥१८॥
विमला-वानरों की भुजाओं ने पर्वतों को, पर्वतों ने वृक्षों को, वृक्षों ने मेघसमूह को ऐसा धारण किया था कि ज्ञात नहीं होता था कि ये बानर सेतु बाँध रहे हैं अथवा आकाश को नाप रहे हैं ॥५८। पुनः समुद्रक्षोभमाहरहसविसज्जिएक्कमेकका वलन्तषु अपडिअमणिसिला साअरम्मिणिवन्ति घरणिहाआ मलिममहाभुजंगभग्गफणोअरोसरिप्रसंपुडं रसाअलं दुम्मेन्ति धरणिहाआ। णासइ जं जलं सारस्स चुण्णिअमणोसिलापडपडन्तसेलसंवारुणं
फलन्तं दरिअणिसाअरेन्दहीरन्तजाणईवाहणिब्भर
पुलोइप्रस्स किर दारुणं . फलं तम् ॥५६।। [ रभसविसृष्टकके वलधुलपतितमणिशिलाः सागरे निपतन्ति धरनिघाता
मृदितमहाभुजंगभग्नफणोदरापसृतसंपुटं रसातलं दुन्वन्ति धरणिघाताः । नश्यति यज्जलं सागरस्य चणितमनःशिलातटपतच्छेलस्यन्दारुणं फलदृप्तनिशाचरेन्द्रह्रियमाणजानकीवाष्पनिर्भरप्रलोकितस्य किल दारुणं फलं तत्॥]
धराणां पर्वतानां निघाता: समूहाः सागरे निपतन्ति । कीदृशाः । रभसेनोत्कण्ठया वेगेन वा विसृष्टाः क्षिप्ता एकैके पर्वता एव यत्र ते । यद्वा एकैके स्वरूपा इत्यर्थः । एवं वलन्त्यो वक्रीभवन्त्यो धुताः कम्पिता: पतिता मणिरूपा: शिला येभ्यस्ते । गिरिपतने तत्क्षोभान्मणिशिला अपि भ्रमित्वा पतन्तीत्यर्थः । तदुत्तरं धरणीघाता भूमेरभिघाता रसातलं पातालं दुन्वन्ति व्याकुलयन्ति । पर्वतपतनेन समुद्रजलक्षोभकृततटाभिघाताया धरण्या आन्दोलने तत्संलग्नत्वेन पातालमप्यान्दोलयतीत्यर्थः । धरण्या दलने पातालमपि दलतीत्यर्थो वा। रसातलं कीदृशम् । मृदितस्य धरण्या यन्त्रितस्य महाभुजंगस्य शेषाहेर्भग्ना अवनता याः फणास्तासामुदराभ्यन्तरादपसृतास्त्यक्ताः संपुटा ओष्ठद्वयमिश्रणा यत्र तत् । क्षुभितभूमिभारेण शेषादेः फणाभङ्गे ओष्ठद्वयविभागेन संपुटत्यागो भवतीत्यर्थः । अथ चूर्णितं मनःशिला धातुविशेषस्तत्तटं यत्र तथाभूतस्य पततः शैलस्य स्पन्देन मनःशिलारागमिश्रितजलक्षरणेनारुणं सागरस्य जलं यन्नश्यति उच्छलितं सत्क्षीयते तत्किल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org