SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२७३ उच्छलितजलप्रकर्षमाह ण वि तह पवनाविद्धा विप्रडणिअम्बगरुपा रसामलमूलम् । जह उच्छलिउद्धाइअसलिल भरोवाहिआ अइन्ति महिहरा ॥५॥ [ नापि तथा प्लवगाविद्धा विकटनितम्बगुरुका रसातलमूलम् । यथा उच्छलितोद्धावितसलिलभरापवाहिता आयान्ति महीधराः ॥] प्लवगैराविद्धाः प्रक्षिप्ता अपि विकट नितम्बगुरुका अपि महीधरास्तथा तेन प्रकारेण रसातलमूलं नायान्ति न गच्छन्ति यथा स्वाभिघातेनोच्छलितैरथोवं धावितैर्गगनगाहिभिः सलिलभरैरपवाहिताः परावृत्त्य नियन्त्रणाभिरधः प्रेरिता गच्छन्ति । तथा च प्रेरकाणामतिबलवत्त्वं प्रेर्याणां चाति गुरुत्वमित्युभयथापि हठादेव पातालगमनौचिती। तदपेक्षयाप्युच्छलितजलाभिघातेन यत्सुतरां पतनं तेन तत्पर्वते खण्डजलावयविनस्तस्याभिघातप्रकर्षस्तेन स्वोच्छलनहेतुतत्पर्वतस्य पुनरन्तरालब्ध्या चोभयथापि गुरुप्रकर्ष स्तेन महत्त्वप्रकर्षः गुरोरप्यतिदूरमूर्ध्वगमनमित्युच्छलनवेगप्रकर्षस्तेन समुद्रतत्पर्वताभिघातप्रकर्षस्तेन क्षेपप्रकर्षस्तेन' कपीनां बलप्रकर्षोऽनुमीयत इत्यनुमानपरम्परा । एवं च तत्पर्वतस्य तृतीयकारणोपनिपातेन पाताल प्राप्त्या स्वोत्थापितखण्डजलेनान्तरासंबन्धेन च समुद्रस्य गाम्भीर्यमुक्तम् । यद्वा प्लवगैः आ अत्यर्थेन विद्धाः क्षिप्ता नितम्बगुरवोऽपि महीधरास्तथा पातालं न गच्छन्ति यथा तदभिघातोच्छलितैरेव सलिलैरपवाहिता अन्य एव गच्छन्ति । बलं विनैव क्षिप्ता लघव इत्यर्थात् । तथा च बलक्षिप्तानां गुरूणां पुरोगामिनामप्यपेक्षया अप्रयत्नक्षिप्ता लघवः पश्चाद्गामिनोऽप्यग्रे पातालं गता इति प्रेरकजलस्य प्रकर्षस्तेन तदभिहन्तुस्तत्पर्वतस्य तेन कपीनां बलस्य चेत्युन्नयामः ।।५।। विमला-वानरों ने अत्यधिक वेग से विकट नितम्ब भाग वाले बड़े - बड़े पर्वतों को समुद्र में फेंका। ये पर्वत उतनी जल्दी रसातल के मूल भाग तक नहीं पहुँच पाये, जितनी जल्दी इन्हीं पर्वतों के अभिघात से उछले समुद्र-जल के भधोगमन से प्रेरित, धीरे से फेंके गये अन्य पर्वत रसातल को पहुँच गये ।।५५।। तरङ्गाणामुत्थापनमाह उत्तङ्घिनदुमणिवहा गिरिघाउध्वत्तमुच्छिमहामच्छा। वेलासेलकावलिआ उद्धं भिज्जन्ति उहिजलकल्लोला ॥५६॥ [ उत्तम्भितद्रुमनिबहा गिरिघातोवृत्तमूच्छितमहामत्स्याः । वेलाशैलस्खलिता ऊवं भिद्यन्ते उदधिजलकल्लोलाः ॥] उदधिजलानां कल्लोलाः प्रथमं प्रक्षिप्ता गिरिघातेनोद्वृत्ता दर्शितोदराः अथ च मूच्छिता महामत्स्या येषु तथाभूताः । अथ तदभिघातेनोच्छलनाद्वैलाशैलेषु मलय १८ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy