________________
२६४ ]
सेतुबन्धम्
[ सप्तम
बहूनां वैक्लव्यमाह
वज्जभअ धरणिहरा आइवराहख रपेल्लपाइँ सुमई। सम चिअ पम्हट्ठं संभरिओ महणसंभमं च समुद्दो ॥४०॥ [ वज्रभयं धरणिधरा आदिवराहखुरप्रेरणानि वसुमती ।
समकमेव प्रस्मृतं संस्मृतवान्मथनसंभ्रमं च समुद्रः ॥] धरणिधरा वज्रभयं स्मृतवन्तः । पूर्वं वज्रभयेन पलायने समुद्रप्रवेशे वा परस्परसंबट्टावस्थोद्वोधात् । यद्वा समुद्रस्था एव धरणिधरा वज्राभिघातसजातीयागन्तुक. पर्वताभिघातादित्यर्थः। आदिवराहखुरैः प्रेरणानि वसुमती स्मृतवती। कपीनां चरणसंक्रमेण तत्सजातीयदुःखोदयात् । एवं मथनात्संभ्रममुद्वेगं त्रास वा समुद्रः स्मृतवान् । तत्समानविमर्दोदयात् । समकमेकदैवेत्यर्थः । प्रस्मृतं विस्मृतम् । अत्र प्रस्मृतं स्मृतवानित्युभयत्र यथायोग्यं विभक्तिलिङ्गविपरिणामेना वयः कर्तव्यः । सममेव विस्मृतं सममेव स्मृतवन्त इत्यर्थो वा । 'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति भावः ॥४०।।
विमला-पर्वतों, पृथिवी तथा समुद्र को एक साथ ही क्रमश : बिसरा हुआ वज्रभय, आदिवराह के खुरों से जन्य उद्वेग, मथनजन्य त्रास पुन: याद हो आया ॥४०॥ अन्यापराधेन समुद्रस्य विपत्तिमाहमलअचन्दणलआहरे संभरमाणओ
पिअअमहणदुक्खं मिव संभरमाण ओ। रसइ सेलसिहराहिहओ सरिआवई
दहमुहस्से दोसेण समोसरिआवई ॥४१॥ [ मलयचन्दनलतागृहान्संबिभ्राणो निजकमथनदुःखमित संस्मरन् । रसति शैलशिखराभिहतः सरित्पतिर्दशमुखस्य दोषेण समवस्तृतापत् ।।]
शैलशिखरेण पतताभिहतः सरित्पतिः समुद्रो रसति अभिघातवशेन शब्दायते । अत्रोत्प्रेक्षते-निजकं मथनदुःखं संस्मरन्ननुभवन्निव । अन्योऽपि वेदनया रोदितीत्ययमपि शब्दव्याजेन रोदितीत्यर्थः । कीदृक् । मलयपर्वतस्थ चन्दनलतागृहाणि संबिभ्राणो धारयन् । तत्संबन्धात्पयःसेकादिना पुष्ण निति वा । डुभृनः पोषणमप्यर्थ इत्यर्थ इत्याशयात् । यद्वा पोषणार्थकभरधातोरेवायं संभरमाण इति प्रयोगः । तदुक्तम्-'भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्' इति । पुनः कीदृक् । दशमुखस्य दोषेण सीतापहरणरूपेण समवस्तृता समुपागता आपद्विपत्तिर्यस्य तथा । तदुक्तम्-'खलः करोति दुर्वत्तं नूनं फलति साधुषु' इति । तथा च दुष्टसमाजः सर्वथा त्याज्य इति ध्वनिः ।।४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org