________________
आश्वास: ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ दृढसंदानितमूला वलन्ति वानरभुजावलम्बितशिखराः । रोषोद्विग्नभुजंगमविष मोर्ध्वफगाप्रणोदिता धरणीधराः ॥ ]
दृढं यथा स्यात्तथा संदानितं भूमिप्रथितं मूलं येषां ते महीबरा वानरभुजाभ्यामवलम्बितं शिखरं येषां तथाभूता वलन्ति । वक्रीभूय पतन्तीत्यर्थः । पतने हेतुमाह - रोषेण ममावासः कुतः केन चाल्यत इति क्रोधेनोद्विग्नो व्याकुलो यो भुजंगमस्तस्य विषमा विकटा ऊर्ध्वा प्रकृतक्षोभजिज्ञासया उत्थापिता फणा तया प्रणोदिताः । ऊर्ध्वं प्रेरिता इत्यर्थः । तथा च संदानित मूलत्वेन येषामुत्यापनं कपिभिः कर्तुं न पारितं कि तु करेण शिखरावलम्बनमात्रं कृतं त एव गिरयस्तल वर्तिभुजंगमेनाकस्मात्क्रोधतोऽनवधानादुत्थापितया फण्या प्रेर्यमाणा भूमेरुध्वं गत्वा पतिता इति सर्पाणां वानरेभ्योऽप्यतिबलवत्त्वं सूचितम् ॥४६॥ |
1
[ २१७
विमला - वानरों ने पर्वतों के शिखरों को भुजाओं मे ( उखाड़ने के लिये ) पकड़ा । पर्वतों का मूल भाग पृथिवी के भीतर दृढ़ता से ग्रथित था ( अतएव वानरों के लिये उखाड़ना कुछ दुष्कर था ) तथापि ( वानरों के व्यवहार-वश होने वाले ) रोष से उद्विग्न ( गिरितलवर्ती ) सर्प के उठाये गये फन से पर्वत ऊपर निकल आये और वक्र हो-होकर गिर गये ॥ ४६ ॥ अथ गिरीणां तिर्यगान्दोलनमाहसरिया सरन्तपवहा अण्णोष्णमहाण इष्पव हपल्हत्था । खोहिअपङ्कखउरा वलन्त सेलवलिआ मुहुतं बूढा ॥ ५० ॥ [ सरित: सरत्प्रवाहा अन्योन्यमहानदी प्रवाहपर्यस्ताः । शोभितपङ्ककलुषा वलमानशैलवलिता मुहूर्तं व्यूढाः ॥ ] संचरत्प्रवाहाः सरितो वलमाने जातवामदक्षिणपाश्नन्दिोलने शैले वलिताः शैलान्दोलनक्रमेणान्दोलिताः सत्यो मुहूर्तं व्याप्य व्यूढा उपचिताः । अत्र हेतुमाहअन्योन्यमहानदी प्रवाहेषु पर्यस्तास्तिर्यग्भूय स्खलिताः । अत एवोत्पथगमनेन तक्षोभादिना क्षोभिर्तरुत्थापितः पङ्कः कलुषा वर्णान्तरं प्राप्ताः । तया च तिर्यक्पवतानामान्दोलने एका सरिदपरसरित्प्रवाहं प्रविष्टा तदैतज्जलेन तस्या उपचयः क्षणमेव जातः । पुनरपरदिक्चालने से बैतत्प्रवाहं प्रविष्टा तदास्या एवोपचय इत्येवमन्यासामपीति नदीनामुपचयस्य मुहूर्तमात्रस्थायित्वेन कपीनामान्दोलने शीघ्रत्वमुक्तम् । भुजाभ्यामेकमुखीकृत्य पर्वतयोरेवान्दोलनादन्योन्यं सरित्संगमः क्षणिकोsभूदिति बयम् । कुटिलयोः कलुषयोश्च संगमः क्षणिक इति ध्वनिः ॥ ५० ॥
विमला - ( वानरों द्वारा ) पर्वतों के आन्दोलित किये जाने पर नदियों के संचरणशील प्रवाह, एक-दूसरे के प्रवाह में टेढ़े होकर स्थलित हो गये, इस प्रकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org