________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ ૨૧૧
पीयमानोऽधरो यस्याः । नायकेनेत्यर्थात । सा कंपीयमानाधरा । कंशब्दस्याव्ययत्वमपि । एवं धरशिखर समावद्धजलभररतोद्विग्ना धरस्य पर्वतस्य शिख रेण समाः कर्कशत्वाद्येऽवृद्धास्तरुणा जल(ड)भरा मूर्खसमूहास्तेषां रतेन सुरतेनोद्विग्ना। कठि. नत्वात्तरुणत्वान्मूर्खत्वाच्च तेषामुद्वेगजनकत्वात् । रवेण सुरतकालीनप्रौढिव्यञ्जकशब्दविशेषेणोद्विग्ना त्रस्ता वा । जलं जाड्यं धारयतीति जलधरो नायकस्तस्य रतेनेति वा । एवं गतसुखवम निशज्ञा गतं सुखस्य वर्त्म द्वारं यस्यां तथा सा च निशा चेति कर्मधारयः । तद्गतसुखवमनिशम् । 'विभाषा सेनासुराच्छायाशालासभानिशानाम्' इत्येकवद्भावात् । तज्जानाति ताम् । रात्रि सुखशून्यां मन्यत इति तथानर्थसंदेहादिति भावः । गतसुखवार्तेति पूर्ववद्वा। एवं सहस्रपात्रनिषण्णा सहस्र दातु समर्थ इति सहस्रपात्रं धनिको नायकस्तत्र निषण्णा आसक्ता । गणिकेत्यर्थः । इति ध्वनिः । 'हंसो विहंगभेदे स्याद विष्णौ हयान्तरे। योगिमन्त्रादिभेदे च परमात्मनि भेषजे' ॥३८॥
विमला-वानरों द्वारा कैंपाये गये पर्वतों के शिखरों से समाविद्ध (पर्वतशिखरस्थ ) बादलों के शब्दों से उद्विग्न तथा गये हुये हंस के निमित्त निश्चेष्ट, कमलसरोवर में स्थित हँसी काँप उठी ॥३८॥ अथ कपीनां वक्षसा गिरिनदीनां निरोधमाहपोवऊढकडि ढग्रसेलम्भन्तरभमन्तविसमक्ख लिआ । गहिरं रसन्ति वित्थ प्रवच्छत्थलरुद्धणिग्गमा ण इसोत्ता ॥३६॥ [प्लवगोपगढकृष्टशैलाभ्यन्तरभ्रमद्विषमस्खलितानि ।
गम्भीरं रसन्ति विस्तृतवक्षःस्थलरुद्धनिर्गमानि नदीस्रोतांसि ॥] विस्तृतं यद्वक्षःस्थलं कपीनामेव तेन रुद्धो निर्गमो बहिःप्रसरणं येषां तानि नंदीस्रोतांसि गम्भीरं रसन्ति शब्दायन्ते। कीदृशानि । प्लवगेनोपगूढ आलिङ्गितस्ततः कृष्ट आलिङ्गयोत्पाटित इत्यर्थः । तथाभूतशैलस्याभ्यन्तरे निम्ननदीखातकंदरादिदेशे भ्रमन्ति सन्ति विषममुन्नतं यथा स्यादेवं स्खलितानि परावृत्तानि । अयमर्थ:-प्लवगैरालिङ्गयाकृष्टानां पर्वतानां सरित्प्रवाहे वक्षःस्थलेन मुद्रितत्वात्प्रतिरुद्धे तज्जलं वर्मालाभेन तत्रैव बभ्राम । ततः कियदाधिक्ये उच्छलितमथ ततोऽप्याधिक्ये परावृत्तं सन्निम्नकंदरादिप्रदेशे पतत्तत्पूरणाभिघाताभ्यां दध्वान । अन्यत्रापि नद्यादिजलं पर्वतादिप्रतिरोधाभ्रंमत्युत्तिष्ठति परावर्तते ध्वनति चेति ध्वनिरिति नदीजलप्रतिरोधकत्वेन कपिवक्षसां विकटत्वं दृढत्वं दृढालिङ्गनवत्त्वं नदीजलानां तु चिरनिर्गमाभावेन पूरणानन्तरं शब्दानुत्पत्तेरिति शब्दायमानत्वेन च हठातज्जलापूरणीयकंदरादिशालित्वेन गिरीणां च महत्त्वं सूचितम् ॥३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org