________________
२१० ]
सेतुबन्धम्
जलदोदर शिशिर मारुतवीज्यमानाः ।
[ नवपल्लवसच्छाया वायन्ति तत्क्षणोत्खात हरिहस्तोत्तिविह्वला मलयद्रमाः ॥ ] मलयमा वायन्ति शुष्यन्ति । किंभूताः । नवपल्लवैः सच्छायाः छाया कान्तिरातपाभावो वा तत्सहिता । एवं जलदोदरस्य ये शिशिरा मारुतास्तैर्वीज्यमानाः । एवं तत्क्षणे उत्खाता अथ हरिहस्तेनोत्क्षिप्ता उत्तोलिताः सन्तो विह्वला व्याकुलाः । परस्पराभिघातशाखापत्त्रकत्वात् । तथा च नवदलमयत्व सजल जल दोदरपवनवीजितत्वतत्क्षणोत्खातत्व रूपशोषणाभाव सामग्रीसत्वेऽपि हठादेव मलयतरुशोषणं कपिकरकृतोत्क्षेपणनिबन्धन मिथः शाखाद्यभिघात मूलकत्वेन कपीनां बलवत्त्वमूर्ध्वक्षेपणहेतुकरविमण्डल सांनिध्य निबन्धनत्वेन वा महदाकारत्वं गमयति । मलयोत्पाटन
[ षष्ठ
सौकर्याय वृक्षोत्पाटनम् ||३७||
सूख गये ||३७||
विमला - नवदलमय, छायादार, सजल, जलदोदर - पवन - वीजित मलयद्रुम तत्काल उखाड़े गये और वानरों के हाथों से ऊपर फेंके गये, अथ पर्वतोत्पाटने तदाश्रितानां वैकल्यमाह - कम्पिज्जन्तधराहर सिहर समाइड्ढजलहर र उप्पित्या । गग्रहवत्तणिसण्णा वेवइ हंसी सहस्तवत्तणिसण्णा ||३८|| [ कम्प्यमानधराधरशिखरसमाविद्धजलधररवोद्विग्ना गतसुखवर्त्म निषण्णा वेपते हंसी सहस्रपत्रनिषण्णा ॥ ]
हंसी मराली वेपते कम्पते । कम्पने हेतुमाह — कीदृशी । कम्प्यमानानां चाल्यमानानां कपिभिरर्थात् धराधराणां शिखरैः समाविद्धानां वेधं नीतानां जलधराणामर्थात्तदुपरि तिष्ठतां रवैवैधव्यथाजनितशब्दैरुद्विग्ना विषण्णचिता । वर्षासमय भ्रमाद्रवस्य भैरवत्वेन क्षोभातिशयाच्च । अत एव हेतोर्गतं प्रथमत एवोडीय पलायितं यत्सुखपात्रं हंसस्तेन निःसंज्ञा निश्वेष्टा । मुग्वेति यावत् । यद्वा गतसुखवार्त निःसंज्ञा गता सुखस्य वार्ता यस्याः सा गतसुखवार्ता सा चासौ निःसंज्ञा चेति कर्मधारयात्पुंवद्भावः । एवं सहस्रपत्रे कमले तत्रत्यसरोवरस्थे निषण्णा उपविष्टा । तथा च गिरिकम्पनस्य जलधरभेदहं सोद्वेग हेतुत्वप्रतिपादन मुखेन विश्वक्षोभकत्वमुक्तम् । अथ वा हंसः परमात्मा तस्य स्त्री हंसी । ' पुंयोगात् -' इति ङीष् । सा पृथिवी वेपते । किंभूता । कम्प्यमानस्य धराधरस्य शिबरेण । पतितेनेत्यर्थात् । समाविद्धस्य प्रेरितस्य जलगृहस्य समुद्रस्य रवेग तटाभिवातजन्यशब्देव उद्विग्ना आकुला । एवं गता सुखस्य शुभस्य वा वर्तनी पदवी तस्याः संज्ञा नाम यस्पाः । शिखराभिहतसमुद्राघातनिर्घातव्याकुलाया यस्याः सुखस्य नामापि नास्तीत्यर्थः । एवं सहस्रवक्त्रनिषण्णा सहस्रवक्त्रः शेषस्तत्र स्थिता । तदुपरीत्यर्थः । अथ च हंसी बनाकाप्रभृतिषु विशिष्टनायिकाजातिते । कीदृशी । कं सुखं यथा स्यादेवं कं सुखं तेन वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org