________________
१६४]
सेतुबन्धम्
[षष्ठ
च पुनः पश्चात्समुद्रकृतप्रणामोत्तरं त्रिपथगापि तत्रैव हरिचरणे निपतिता । रामप्रणामं कृतवतीत्यर्थः । तत्र कुत्र । यत एव निर्गता जाता । एतेन परस्त्रिया अपि गङ्गाया रामचरणपतने धाष्टयं शङ्का निराकृता। उत्पत्तिस्थानत्वात् । किंभूता । त्रस्तं हृदयं यस्याः सा। राम: किं कुर्यादित्याशयात् । एवं विपर्यस्तमुखी तिर्यमुखी । त्रासेन लज्जया वा । हरिचरणे कीदृशी कमलवदाताम्र ॥८॥
विमला-तत्पश्चात् गङ्गा भी त्रस्तहृदय एवं ( लज्जा से ) तिर्यङ्मुखी हो, हरि के कमलवत् लाल उन्हीं चरणों पर गिरी जिनसे ही वह पहिले निर्गत हुई थी॥८॥ अथ समुद्रस्य वचनमाह
अह मउ पि भरसहं जम्पइ थोमं पि प्रत्थसारम्भहिअम् । पण पि धोरगरु थुइसंबद्धं पि अलिअं सलिलणिही ॥६॥ [ अथ मृदुमपि भरसहं जल्पति स्तोकमप्यर्थसाराभ्यधिकम् ।
प्रणतमपि धैर्यगुरुकं स्तुतिसंबद्धमप्यनलीकं सलिलनिधिः ॥]
अथ प्रणामोत्तरं सलिल निधिल्पति । वचनमिति शेष इति कश्चित् । तेन विशेषणान्वयो भवतीत्याशयात् । तथाहि वचनं कीदृक् । समुद्रस्यावसादेन मृदुकमपि ध्वनेर्दिवेऽपि भरः कार्यगौरवं तत्सहम । प्रयोजनस्य महत्त्वात् । एवं महाशयत्वेन वाक्यस्य स्तोकत्वेऽप्यर्थो वाच्यभागस्तद्रूपसारेणाभ्यधिकम् । वाच्यार्थस्य निष्पन्नत्वात् । विनयात्प्रणतत्वेऽपि धैर्येण गुरुकम् । कातरत्वाभावात् । माननीय विषयतया स्तुतियुक्तत्वेऽप्यनलीकम् । भगवद्विषयकत्वात् । वस्तुतस्तु मृदुकमपि भरसहं यथा स्यादिति सर्व जल्पनरूपक्रियाविशेषणम् । मृदु भरसहं न भवति, स्तोकमभ्यधिकं न भवति, प्रणतं गुरु न भवति, स्तुतिसंबद्धमनलीकं न भवतीति विरोधानामाभासत्वमपि शब्दगम्यम् । अन्यस्तु वक्ष्यमाणस्कन्धकचतुष्टयेषु क्रमेण मृदूकमित्यादि विशेषणचतुष्टययोजनमाह-10
विमला-प्रणामानन्तर समुद्र ने मृदु तथापि आशय से महान, स्वल्प तथापि वाच्यार्थरूप सार से अभ्यधिक, प्रणत तथापि धैर्य से गम्भीर, स्तुतिसम्बद्ध तथापि सत्य ( वक्ष्यमाण वचन ) कहा ॥६॥ अथाष्टभिस्तद्वचनस्वरूपमाह
दुत्तारत्तण गरुइं थिरधीरपरिग्गहं तुमे च्चिअ ठविअम् । अणुवालन्तेण ठिई पि ति तुह विप्पि मए कह वि कमम् ॥१०॥ [दुस्तारत्वगुर्वी स्थिरधैर्यपरिग्रहां त्वयैव स्थापिताम् । अनुपालयता स्थिति प्रियमिति तव विप्रियं मया कथमपि कृतम् ।।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org