________________
आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम्
[१६३ [ आलीनश्च रघुपति निजकच्छायानुलिप्तमलयमणिशिलम् ।
संश्रितसुखोपजीव्यं द्रुमं लतयेव जानक्या विरहितम् ॥] रघुपतिमालीनः संगतश्च । समुद्र इत्यर्थात् । किंभूतम् । निजकच्छायया निजकान्त्या निजप्रतिबिम्बन वानुलिप्ता व्याप्ती मलयमणिशिला येन तम् । समुद्रागमनजन्यानन्देन शोभाधिक्यात् । तथा च विलक्षणकान्तिभिरेव समुद्रेणापि हठापरिचित इति भावः । एवं संश्रितैराश्रितः सुखेनोपजीव्यं सेव्यम् । कमिव । जानक्या लतया विरहितं द्रुममिव । सीताविश्लिष्टतया लताशून्यद्रुमसाम्यम् । द्रुममपि कीदृशम् । निजातपाभावरूपच्छायानुलिप्तमलयमणि शिलम् । संशितं प्रशंसितं यत्सुखं फलदानादिना तेनोपजीव्यमादरणीयम् । वृक्षतौल्येन रामस्योन्नतिः फलदत्वं च न्यज्यते ॥६॥
विमला-इस प्रकार समुद्र, अपने प्रतिबिम्ब से मलयमणिशिला को व्याप्त करने वाले, आश्रितों द्वारा सुख के लिये संसेव्य, लतावियुक्त द्रुमसदृश जानकीविरहित श्रीराम से आ मिला ॥६॥ अथ रामप्रणाममाहसरघाहिरकुसुमो तिवहनवल्लीपिणद्धमणिरमणफलो। रामचरणेसु उबही पढपवणाइद्धपानमो व्व णिवडिप्रो ॥७॥ [ शरघातरुधिरकुसुमस्त्रिपथगावल्लीपिनद्धमणिरत्नफलः ।
रामचरणयोरुदधिदृढपवनाविद्धपादप इव निपतितः ॥] रामचरणयोरुदधिनिपतित: । दृढपवनेनाविद्धः प्रेरितः पादपः इव । यथा वृक्षो निपततीत्यर्थः । उदधिः कीदृक् । शरघातरुधिराण्येव कुसुमानि यत्र सः । त्रिपथगारूपा या वल्ली तया पिनद्धानि मणिरत्नानि मणिश्रेष्ठान्येव फलानि यत्र तादृक् । गङ्गाया मणिमयालंकारसत्त्वात् । रामोपहाराय वा । वृक्षोऽपि कुसुमवान् लतासंगतफलश्च भवति । पवनपतितवृक्षतौल्येन समुद्रस्य पीडाधिक्यमुक्तम् ॥७॥
विमला-शर प्रहारजन्य रुधिररूपी पुष्पों वाला, गङ्गारूप वल्ली से धारण किये गये मणिरत्नरूप फलों वाला समुद्र, पवनप्रेरित पादप के समान, राम के चरणों पर फाट पड़ा ।।७।। अथ गङ्गाया रामप्रणाममाहपच्छा अहित्थहिरमा जत्तो चिअ णिग्गा विवह्लत्थमुही। हरिचरण म्मि तहि चिअ कमलाअम्बम्मि तिवहा वि णिवडिआ ।।८।। [ पश्चाच्च त्रस्तहृदया यत एव निर्गता विपर्यस्तमुखी ।
हरिचरणे तत्रैव कमलाताम्र त्रिपथगापि निपतिता ॥] १३ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org