________________
षष्ठ आश्वासः अथ समुद्रस्य निष्क्रमणमाह• अह णिग्गओ जलन्तं दरडड्ढमहाभुअंगपाअवणिवहम् । . मोत्तूण धूमभरि पाआलवणं दिशागओ व्व समुद्दो ॥१॥ [अथ निर्गतो ज्वलद्ददग्धमहाभुजंगपादपनिवहम् ।
मुक्त्वा धूमभृतं पातालवनं दिग्गज इव समुद्रः ॥] अथ विमर्दानन्तरं समुद्रो निर्गतो जलादुत्थितः । किं कृत्वा। धूमैभृतं व्याप्तं पातालमेव वनं त्यक्त्वा । कीदृशम् । ज्वलत् । रामशरानलेनेत्यर्थात् । एवं दरदग्धा महाभुजंगा एव पादपाः। महाभुजंगाश्च पादपाश्चेति द्वन्द्वो वा। समुद्रे वृक्षाणामपि सत्त्वात् । तेषां निवहः समूहो यत्र तथाभूतम् । क इव । दिग्गज इव । यथा हस्ती दग्धसर्पवृक्षनिवहं धूमाक्रान्तं ज्वलद्वनं तापासहिष्णुतया त्यक्त्वा क्वचिनिर्गच्छतीत्युपमा । दिग्गजस्वोपमानत्वेन समुद्रस्य क्षोभेऽपि साहंकारत्वं सूचितम् । प्रायोपविण्टेऽपि रामेऽवधीरणया मत्तत्वं वा ॥१॥
विमला-इसके बाद समुद्र दिग्गज के समान, ( राम के शरानल से ) अर्धदग्ध महाभुजंगरूपी पादपों वाले, जलते हुये धूमव्याप्त पातालरूपी वन को (ताप न सह सकने के कारण) छोड़ कर बाहर निकल पड़ा ।।१।। समुद्रस्य दौःस्थ्यमाह
मन्दरदढपरिमट पलअविम्भिप्रवराहदाढल्लिहिअम् । विसमं समन्वन्तो रामसराघाप्रमिअं वच्छ अडम् ॥ २॥ [ मन्दरदृढपरिमृष्टं प्रलयविजृम्भितवराहदंष्ट्रोल्लिखितम् ।
विषमं समुद्वहनरामशराघातदुःखितं वक्षस्तटम् ॥] इतः स्कन्धकचतुष्टयं 'आलीनश्च रघुपति' इति पञ्चमस्कन्धकेनान्त्यकुलकम् । अथ निर्गतः' इति प्रथमस्कन्धनादिकुलकं वा । किं कुर्वन् । मन्दरेण मथनसमये दृढं यथा स्यादेवं परिमृष्टं निघृ टम् । एतावता विस्तारवलवत्त्वे सूचिते । एवं प्रलये विजृम्भिते भूम्युद्धाराय कृतन मनोन्नमनव्यापारे ये वराहदंष्ट्र ताभ्यामुल्लिखितं न तु खण्डितम् । इयता दाढ्यम् । एतादृशं वक्षस्तटं विषम तिर्यग् नमितं समुद्वहन् सन् । तिर्यक्करणे हेबुमाइ-कीदृशम् । रामशराघातेन दुःखितम् । तथा च तवादियोधमनिर्भरमपि वक्ष इदानी व्रणपीडितमभूदिति रामशराघातप्रकर्षः ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org