________________
रामसेतुप्रदीप-विमलासमन्वितम्
आश्वासः ]
[ १८३
ये उल्कादण्डास्तत्संनिभानि । उल्कादण्डा मुखप्रज्वलिताग्नयः सधूमा नभसः पतन्ति । अत्रोत्काप्रायो वह्निः ऊर्ध्वगतिर्धूमप्राया वह्निपृष्ठलग्ना विपर्यस्ता जलधरा दण्डप्रायाः शराभिघातोत्था नदीप्रवाहा इत्युपमा ॥ ७२ ॥
विमला - रामशर से आकाश में पहुँचा दिये गये नदीप्रवाह, जिनके मुख अग्रभाग ) में अग्नि पुञ्जित था, जिन्होंने धूमशिखातुल्य दीर्घ सलिल आकृष्ट किया था, अतएव प्रलयकालीन उल्कादण्ड के समान आकाश से समुद्र में गिर रहे थे ||७२ ॥
जलानां ह्रासमाह -
अट्टन्त सलिलणिव हो थोप्रत्थो अपड़िमुक्कपुलिणुच्छङ्गो । दोसs प्रोक्कन्तो मग्गाहुत्तो पअं पअं व समुद्दो ॥७३॥ [ शुष्यत्सलिलनिवहः स्तोकस्तोकप्रतिमुक्तपुलिनोत्सङ्गः । दृश्यतेऽपसरन्मार्गाभिमुखः पदं पदमिव समुद्रः ॥ ]
मार्गशब्दः पश्चादर्थवाची । शुष्यन् सलिलनिवहो यस्य तादृक् । अत एव स्तोकस्तोकं जलशोषक्रमेण किंचित्प्रतिमुक्तस्त्यक्तः पुलिनोत्सङ्गो येन तथाभूतश्च समुद्रः पश्चादभिमुखः पदं पदमपसरन्निव दृश्यते । यथा कश्चित्कंचिद्भयहेतुमवलोक्य पदं पदं पश्चादपसरति तथा रामाद्भीतः समुद्रस्तत्संनिधानं त्यक्तुकामः किञ्चित्पश्चादपसरतीति जलशोषणाद्युत्प्रेक्षा ॥७३॥
विमला - समुद्र का जल सूख रहा था, जिससे पुलिन- प्रदेश कुछ-कुछ प्रतिमुक्त होता जाता था, मानों ( राम से डर कर ) समुद्र थोड़ा-थोड़ा एक - एक पग पीछे हटता जा रहा था ।।७३||
वह्न ेरुद्दामतामाह
जलणणिवहम्मि सलिलं साणलणिवहुच्छलन्त सलिलम्मि णहम् । सलिलणिव होत्यअम्मि प्र अत्याग्रह पहले दस दिसावकम् ॥७४॥ [ ज्वलननिवहे सलिलं सानल निवहोच्छलत्सलिले नभः । सलिलनिवहावस्तृते चास्तायते नभस्तले दशदिक्चक्रम् || ] अग्निनित्र हे सलिलमस्तायतेऽस्तं गच्छति । अलक्ष्यं भवतीत्यर्थः । एवं सानलनिवहेऽग्निसमूहसहिते उच्छलत्सलिले नभोऽस्तायते । एवं सलिल निवहेनावस्तृते व्याप्ते नभस्तले सति दशदिक्चक्रमस्तायते । अग्निप्रेरितानां जलानां नभसोऽपि दिशि दिशि गमनात् । तथा च प्रथमं खात एव जलमग्नौ मग्नम् | ततस्तत्प्रेरितं वियद्वयानशे । ततश्च दिक्चक्रमाचक्रामेति विश्वव्यापकत्वमुक्तम् । अन्यदपि दुग्धाद्यावर्तनादुत्थितं सच्चतुर्दिशि पततीति । क्रियादीपकम् ||७४ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org