________________
१८२ ]
सेतुबन्धम्
[ पश्चम
[ धूमायते ज्वलति विघटते स्थानं शिथिलयति मृद्नाति मलयोत्सङ्गम् । धैर्यस्य प्रथमचिह्नं तथापि हि रत्नाकरो न भिनत्ति प्रसरम् ॥ ]
रत्नाकरः प्रथमं शरानलसंबन्धाद्धूमायते धूममुद्वमति । अथ ज्वलति । अथ विघटते कोटिधा स्फुटति । अथ स्थानं मूलं शिथिलयति त्यजति । जलस्योच्छलनाज्ज्वलनाद्वा । अथ मलयक्रोडं मृद्नात्याक्रामति । दाहस्वभावोक्तिरियम् । एवं यद्यपि भवति तथापि धैर्यस्य प्रथमज्ञापकं प्रसरं जल विस्तारगाम्भीर्य लक्षणं न भिनत्ति । न त्यजतीत्यर्थं इति मर्यादाधिक्यमुक्तम् ॥७०॥
विमला - रत्नाकर क्रमशः धूमायित, प्रज्वलित, विघटित हुआ और स्थान ( मूलप्रदेश ) को छोड़ कर मलयगिरि के क्रोड को आक्रान्त कर चुका तथापि उसने धैर्य के प्रथम चिह्नस्वरूप जल विस्तार का परित्याग नहीं किया ॥ ७० ॥
पाकजशब्दप्रागल्भ्य माह
भुवइन्दलोअणाणं फुट्ठन्ताण प्र तिमीण साअरमज्झे । संवत्तजलहराण व रामसराणलहाण णीहरइ र ॥ ७१ ॥ [ भुजगेन्द्रलोचनानां स्फुटतां च तिमीनां सागरमध्ये | संवर्तजलधराणामिव रामशरानलहतानां च निर्हृदति वः ॥ ] रामशरानलेनाहतानामत एव सागरमध्ये स्फुटतां भुजगेन्द्रलोचनानां तिमीन च रवः स्फुटनजन्यः शब्दो निर्ह्रादति त्रैलोक्येऽपि प्रतिशब्दं जनयति । यथा संवर्त : प्रलयस्तत्कालीनमेघानां रवो निर्ह्रादी भवतीत्यर्थः । अत्र सागरे स्फुटनमतिदूरे प्रतिरव इति तत्प्रकर्षेण मूलशब्दप्रकर्षस्तेन लोचनप्रकर्षस्तेन भुजंगप्रकर्षस्तेन तद्दाहकशरानलप्रकर्षः ॥ ७१ ॥
+
विमला -- राम के शरानल से आहत अतएव सागर के बीच में फटते- फूटते सर्पों के नेत्रों तथा तिमिमत्स्यों का प्रलयकालीन मेघों के समान स्फुटनजन्य शब्द हुआ, जिसकी प्रतिध्वनि से त्रैलोक्य व्याप्त हो गया ।।७१ ॥
नदीप्रवाहानाह—
मुहपुजिगणिवा धूमसिहाणिहणिराग्रडिग्रसलिला । णिवन्ति हुक्सित्ता पलउक्कादण्डसगिहा णःसोत्ता ॥७२॥ [मुखपुञ्जिताग्निनिवहानि धूमशिखानिभनिरायत कृष्टस लिलानि ।
निपतन्ति नभ उत्क्षिप्तानि प्रलयोल्कादण्डसंनिभानि नदीस्रोतांसि ॥ ] नभस्युत्क्षिप्तानि रामशरेण प्रेरितानि नदीस्रोतांसि निपतन्ति । आकाशात्समुद्र इत्यर्थात् । कीदृशानि । मुखे पुञ्जितो वर्तुलीभूतोऽग्निनिवहो येषु तानि । एवं धूमशिखातुल्यानि निरायतानि दीर्घाण्याकृष्टानि सलिलानि यैः । अत एव प्रलयकालीना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org