SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] गर्ते शरानलोपचयमाह - चाऊरेड रसन्तो उक्खडिख भुअंगभो अपभाराई । सरमूहगलत्थणुक्ख असेलट्ठाणविवरोअराइ हुश्रवहों ।। ५३ ।। [ आपूरयति रसन्नुत्खण्डितभुजंगभोगप्राग्भाराणि । शरमुख गलहस्तोत्खातशैलस्थानविवरोदराणि हुतवहः ॥ रामसेतुप्रदीप - विमलासमन्वितम् Jain Education International हुतवहः शराणां मुखं शराग्रं तस्य गलहस्तः प्रेरणं तेनोत्खाता उत्थापिता ये शैलास्तेषां स्थानान्येव शून्यत्वाद्विवराणि तेषामुदराणि पूरयति । उत्खातसमुद्रमध्यस्थशैलस्थानानि यावत्परितोवर्तीनि जलानि पूरयन्ति तावच्छराग्निभिरेव पूरितानीति जलवेगापेक्षयानलवेगप्रकर्षः । तदुत्तरमपि शराग्नेः प्रौढत्वाज्जलप्रवेशो न वृत्त इति भावः । अत एवोक्तं रसन् । प्रान्तावच्छेदेन तज्जलदाहजन्य शब्दवानित्यर्थः । स्वभावतो वा । तानि किंभूतानि । उत्खण्डिता भुजंगानां भोगप्राग्भारा यत्र तानि । फणावष्टब्धपर्वतरक्षणाय पुच्छावष्टब्धभूमित्वेन बलरोषप्रकर्षादनुत्थितपुच्छ त्वेन च शैलोत्थापनेन मध्य एव त्रुटिता भुजंगा इत्यर्थः ॥ ५३ ॥ विमला - अग्नि ने बाणों के अग्रभाग का अर्धचन्द्र देकर ( समुद्रमध्यस्थ ) शैलों को उखाड़ दिया और ( उन पर्वतों की रक्षा के लिये उन पर फण टिकाये गये ) सर्पों के शरीर का पूर्वार्ध भाग तोड़-ताड़ दिया एवम् उखाड़े गये पर्वतों के स्थान पर हो गये विवरों को ( समुद्रजल के पहुँचने के पूर्व ही ) उसने धू-धू करते हुये व्याप्त कर दिया ॥५३॥ करिमकरदन्तानाह— भिण्णुव्वूढजलअरा दरदिष्णमहात रंगगिरिअडघाआ । छिण्णपडिउद्धविद्धा फुडन्ति माश्रङ्गमश्ररदन्तप्फडिहा ॥५४॥ [ भिन्नोद्वघू ढजलचरा दरदत्तमहातरङ्गगिरितटघाताः । छिन्नपतितोर्ध्वविद्धाः स्फुटन्ति मातङ्गमकरदन्तपरिघाः ॥ ] मातङ्गमकराणां दन्ता एव परिधास्तदाकारत्वात् । ते रामशरेण च्छिन्नाः सन्तः पतिताः । अथोर्ध्वविद्धाः T: शरानलज्वालासंबन्धादूर्ध्वं गतास्तत्रैव स्फुटन्ति । द्विधा भवन्तीत्यर्थः । यथा गृहादिदाहे वंशादयो नभो गत्वा स्फुटन्ति । किंभूताः । भिन्नाः स्यूता अथोद्वढा ऊर्ध्वं नीता जलचराः करिमकरादयो यैः । स्वशिखाप्रोतजलचरसहिता एवोच्छलिता इत्यर्थः । एवं दरदत्तो महातरङ्गेण गिरिताघातो यैस्ते । तथा च मलय सुवेलाभिघातक्षमतरङ्गोत्थापकतया नक्रभेदकतया च दन्तानां प्रकर्षः । तेन च तदुच्छलनसमर्थशरानलस्य करिमकराणां चेत्यवधेयम् । दरदत्तो महातरङ्गा एव गिरयस्तेषां तटघातो यैरिति वा ॥ ५४ ॥ [ १७३ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy