________________
सेतुबन्धम्
Jain Education International
१६४ ]
अथ समुद्रक देशस्योच्छलनमाहदूराइद्वणिश्रत्ते
समु हा गज बहल सर गिहा आक्खुडिए । दोहा इज्जइ व णहं टङ्कच्छे प्ररहट्ठश्रम्मि समुद्दे ||३५|| [ दूराविद्धनिवृत्ते संमुखागतबहुलशरनिधातोत्खण्डिते ।
द्विधा क्रियत इव नभष्टङ्कच्छेदरभसोत्थिते समुद्र ।। ]
संमुखागतेन बहलेन शरनिघातेनोत्खण्डिते । मध्य इत्यर्थात् । अत एव टकच्छेदरभसेन टङ्कच्छिन्नस्य वेगेनोत्थिते यथा टङ्कादिच्छिन्नं काष्ठादि हठादू गच्छति तथैवोच्छलिते । टङ्कः पाषाणदारणः । यद्वा टङ्कः कुठारः । तस्मिन्निव च्छेदाय खण्डनाय रभसेनोत्थिते । यथा छेदनाय कुठार ऊर्ध्वमुत्तिष्ठतीत्यर्थः । तेन समुद्रजलमेव कुठारप्रायमभूदित्यर्थी लभ्यते । एवंभूते समुद्रे दूरं व्याप्याविद्धे प्रेरिते दूरमूध्वं गतेऽप्यनिवृत्ते पुनः खातमागच्छति सति नभो द्विधा क्रियत इव । समुद्रेणैवेत्यर्थात् । यद्वा नभो द्विधायत इव द्विखण्डायत इव । शराभिघातोच्छलितजलस्य निवृत्त्या तिरोहितमध्यभागस्य गगनस्य प्रान्तभागद्वयं खण्डद्वयमिव लक्ष्यत इत्यर्थः । तथा च पतनदशायां जलस्य लक्ष्यमाणत्वेन गगनस्य द्विधाभावः प्रतीयते न तूच्छलनदशायामिति । नभस्तिरोधायक महत्त्वोत्कर्ष सहचरस्य गुरुत्वोस्कर्षस्य वैपरीत्यहेतोः सत्त्वेऽपि पतनादप्युच्छलने शैघ्रथमभूदिति प्रहारप्रकर्ष उक्तः । कुठारोऽपि दूरप्रेरितनिवृत्तो भवतीत्याशयः ॥ ३५ ॥
विमला — सम्मुख आगत शरसमूह से उत्खण्डित; अतएव कुठार के समान प्रहार करने के लिये वेग से ऊपर उठा समुद्र ऊपर दूर तक जाकर पुनः जब नीचे अपने खात (पेटा) वापस आ रहा था उस समय आकाश दो खण्डों में विभक्तसा प्रतीत हो रहा था ॥ ३५ ॥
अनुत्थितजलावस्थामाह
[ रत्नाकरपरभागे
अणाअरपरभाए मज्झच्छिण्णम्मि बाणघाउक्खित्ते । frass वीश्रद्धन्तो फुडिग्रोसरिथ्रो व्व मलअडपब्भारो ॥ ३६ ॥ मध्य छिन्ने बाणघातोत्क्षिप्ते । निपतति द्वितीयार्धान्तः स्फुटितापसृत इव मलयतटप्राग्भारः ॥ ] रत्नाकरस्य परभागे दक्षिणतटसंनिहितार्धे मध्यच्छिन्ने बाणघातेनोत्क्षिप्ते ऊर्ध्वं नीते सति द्वितीयाधन्ति उत्तरतटसंनिहितार्धभागजलं निपतति । अयं भावः यथा खनित्रादिना तिर्यग्दार्यमाणा भूमिरुत्तरभागेणोत्तिष्ठति न तु पूर्वभागेण तथा रामशरेण मध्यच्छिन्नस्य समुद्रस्य द्वितीयार्धभागजलं तिर्यक्प्रहारातिशयादूर्ध्वमुच्छलतम् । अथ निःशेषशून्ये तज्जलस्थाने पूर्वार्धभागजलं वर्तुलीभूय हठात्प्रविशती - त्यर्थः । क इव । प्रथमं स्फुटितस्ततो गुरुत्वादपसृतः पतितो मलयतटस्य प्राग्भार
[ पञ्चम
For Private & Personal Use Only
www.jainelibrary.org