SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [१४६ की यह ज्योत्स्ना नष्ट होगी ? ( विरहवेदनाविधायिनी ) रात्रि का अवसान होगा ? प्रिया जीवित रहे अथवा जीवन त्याग कर हमारे भी जीवन का हमसे त्याग करा दे-ऐसा सोचकर श्रीराम अत्यन्त दु:खी हुये ।।४॥ अथ रामस्योन्मादावस्थामाहजिन्दइ मिअङ्ककिरणे खिज्जइ कुसुमाउहे जुउच्छइ रमणिम् । झोणो वि णवर झिज्जइ जीवेज्ज पिएत्ति मारुई पुच्छन्तो ॥५॥ [निन्दति मृगाङ्ककिरणान्खिद्यते कुमुमायुधे जुगुप्सते रजनीम् । क्षीणोऽपि केवलं क्षीयते जीवेत् प्रियेति मारुति पृच्छन् । ] रामो मृगाङ्गकिरणान् कलङ्किसंबन्धितया निन्दति । कुसुमायुधे खिद्यते कुसुमबाणोऽपि कुलिशेनेव निहन्तीति मनोदुःखं लभते । रागजनिकेयमिति रजनी जुगुप्सते निन्दति । अथ प्रिया सीता जीवेदिति मारुति पृच्छन विरहजन्यवैक्लव्येन सहजतः क्षीणोऽपि केवलमत्यर्थन क्षीयते। सीताजीवनसंदेहादिति भावः। अत्राप्यमङ्गलपरिहाराय जीवेदिति भावमुखेन प्रश्नः। 'झीणो णवर धरिज्झइ' इति पाठे क्षीणोऽपि केवलं ध्रियते जीवति । प्रिया जीवेदिति मारुति पृच्छन् । तथा च प्रिया यदि जीवेत्तदा मम जीवनत्यागस्तदुःखाय स्यादिति जीवतीत्यभिप्रायः ।।५॥ विमला-श्रीराम चन्द्रकिरणों की तथा रात्रि की निन्दा करते, कामदेव के प्रति खेद करते थे। क्या प्रिया जीवित है-ऐसा हनुमान् से पूछते हुये क्षीण होते हुये भी और अधिक क्षीण होते जा रहे थे ॥५॥ पुनस्तामेवावस्थामाह एत्तो वसइत्ति दिसा एणं सा णण णिन्दइ त्ति मिअङ्को। एत्त णिसण्णेत्ति मही एएण णि त्ति से णहं पि बहुमत्रम् ॥६॥ [इतो वसतीति दिक् एनं सा नूनं निन्दतीति मृगाङ्कः। अत्र निषण्णेति मही एतेन नीतेत्यस्य नभोऽपि बहुमतम् ॥ ] अस्य रामस्य इतः सीता वसतीति दिशां मध्ये दक्षिणा दिक् बहुमता सीताधिष्ठानतया धन्या त्वमसीत्यादृता। तामेव भूयो रामः पश्यतीति भावः । एवं सा दुःखहेतुमेनं निन्दतीति मृगाको बहुमतः । धन्योऽयं यः सीतानिन्दाया अपि विषय इति निन्दाकालीनतद्दष्टि विषयं चन्द्रं स्वदृष्टेस्तदृष्टिसामानाधिकरण्याय पुनः-पुनरीक्षते । अत्र सीता निषण्णेति मही धन्या त्वमसीति बहुमता । तथा च तत्र परम्परासंबन्धविशेषाय शतशः परामर्शमाचरति । एतेन सा नीतेति नभोऽपि बहुमतम् । गगन ! धन्यमसि येन त्वया सीताशरीरम्पर्शो लब्ध इति नभः समालिङ्गतीति भावः । बहुमतमिति यथायोग्यं लिङ्गविपरिणामः । वस्तुतस्तु 'नपुंसकः मनपुंसकेन' इति नानालिङ्गक शेषेणैकवद्भाव इति सारम् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy