________________
भाश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ १४३
अथ वाचिकं प्रसादमाह
तो जम्पइ रहुतणमो समयं दससु वि दिसामुहेसु किरन्तो। पप्राइसकस्स धवलं णोसन्दं व हिअअस्स दन्तुज्जोनम् ॥५॥ [ततो जल्पति रघुतनयः समकं दशस्वपि दिङ्मुखेषु किरन् ।
प्रकृतिसुकृतस्य धवलं निःस्यन्दमिव हृदयस्य दन्तोड्योतम् ॥] ततस्तदनन्तरं रघुतनयो जल्पति । किं कुर्वन् । समकमेकदैव दशस्वपि दिङ्मुखेषु दन्तानामुद्दयोतं किरणं किरन्प्रसारयन् । किंभूतमिव । प्रकृतिशुद्धस्य हृदयस्य धवलं निःस्यन्दमभिप्रायप्रवाहमिव । हृदयस्य शुद्ध तया तदुद्भवाभिप्रायस्याप्युज्ज्वलत्वेन धवलत्वम् । कारणगुणाः कार्यगुणानारभन्त इत्यभिप्रायः ।।५८।।
विमला-तदनन्तर श्रीराम ने प्रकृति शुद्ध हृदय के धवल अभिप्राय प्रवाह-सी दाँतों की कन्ति को दसो दिशाओं में एक साथ विकीर्ण करते हुये ( वक्ष्यमाण वचन ) कहा ॥५८। अथ तद्वचनस्वरूपमाह-- ठावं दवग्गिभीमा वणम्मि वणहस्थिणि व्व परिमग्गन्ती । पेच्छह लद्धासामा मोत्तुं रक्खत उलं ण इच्छह लच्छी ॥५६॥
[स्थानं दवाग्निभीता वने वनहस्तिनीव परिमृग्यन्ती । __पश्यत लब्धास्वादा मोक्तुं राक्षसकुलं नेच्छति लक्ष्मीः॥]
हे लोकाः ! पश्यत । राजलक्ष्मी राक्षसवंशं मोक्तुं नेच्छति । अत्र हेतुमाहकीदृशी । लब्धः प्राप्त आस्वादो वाससुखानुभवो यया। तथा च विभीषणश्चेदिहागतस्तदा रावगं हत्वा राज्यमस्मै समर्पणीयमिति भावः । केव । वनहस्तिनीव । वने दवानलभीता वनहस्तिनी दावानतिक्रमणीयं स्थानं परिमृग्यन्ती वन मोक्तुं नेच्छति किं तु वन एव तथाभूतस्थाने तिष्ठति तथेयमपीत्यर्थः । वनहस्तिनी कीदृशी । लब्धः स्वेच्छालभ्यतृणाद्याहारजन्य आस्वादो यया सा । तथा च दावाग्निप्रायो रावणो लोकतापकत्वात् तद्भीता वनहस्तिनीप्राया लक्ष्मीर्वनप्राये राक्षसकुले सुखहेतुस्थानान्तरप्रायं विभीषणमाश्रयिष्यतीत्याशयः ॥६०॥
विमला-देखिये, दावाग्नि से डरी हुई ( अतएव ) उसी वन में ही सुरक्षा हेतु स्थान ढूढती हुई वनहस्तिनी के समान राजलक्ष्मी वाससुख का अनुभव कर चुकने के कारण राक्षसकुल को त्यागना नहीं चाह रही है ( रावण को मारकर राज्य इसी विभीषण को दूंगा ) ॥५६॥ अथ विभीषणाश्वासनमाह
णज्जइ विहीसण तुहं सोम्मसहावपरिवडिअं विण्णाणम् । विठिविसेहि व अमअं उमहिस्स णिसापरेहि वि अविद्दविनम्॥६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org