________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ १२५
वृद्धोपहासः क न युज्यत इत्याह
अणहूअमुणेअग्व विहडिअविसमक्खरे वि संघडिअत्थे । जोवणमूढपहसिए मा अवमण्णह जरापरिण उल्लाणे ॥२४॥ [ अनुभूतज्ञातव्यान्विघटितविषमाक्षरानपि संघटितार्थान् ।
यौवनमूढप्रहसितान्मावमन्यध्वं जरापरिणतोल्लापान् ॥]
जरया परिणतान् गलद्रूपत्वेनादृढान् । उपहसनीयताप्रयोजक रूपमिदम् । अथ च परिणतानूहापोहसमर्थानुल्लापान्मा अवमन्यध्वं मा अनास्थाविषयीकुरुत । जरापरिणतस्योल्लापानिति वा । कीदृशान् । भनुभूतो ज्ञातव्यभागो येषु तान् । मया सर्वमिदमनुभूयोच्यत इति भावः । अथ चानुभूते सति ज्ञातव्यान् । वृद्धवचनमनुभवानन्तरं ज्ञायत इति भवद्भिरप्यनुभूय ज्ञातव्यं यन्मयोक्तमिति तात्पर्यम् । एवं विघटितानि विषमाक्षराण्यपसिद्धान्तवचनानि येषु । सिद्धान्तसहितानीत्यर्थः । एवं संघटितोऽर्थों वाच्यो येषां तान् । यद्वा विघटितमेकदेशरहितमनभिव्यक्तं विषमाक्षरं कठिनाक्षरं येषु तथाभूतानपि संघटितार्थान् संघटितवक्तव्यान् । तथा च दन्तादिवेक्लव्येन विषमवर्णानां सम्यगुच्चारणाभावेऽपि वक्तव्यार्थसुश्लेषादवमानना कतुन युज्यत इत्यर्थः । अत एव यौवनमूढ रुपहसितान् । वृद्धवचनं वर्णविकलत्वेन' युवान एवोपहसन्तीत्यर्थः ॥२४॥
विमला-(दांतों की विकलता के कारण) कठिन वर्गों का सम्यक् उच्चारण न होने पर भी वृद्ध पुरुष का आक्षेपयुक्त भाषण जीवनोपयोगी ज्ञातव्य बातों से पूर्ण होता है, जिसका ज्ञान अनुभव के अनन्तर ही होता है । अतः मूर्ख युवक ही उसका उपहास करते हैं, तुम सब उसकी उपेक्षा मत करो-ध्यानपूर्वक सुनकर तदनुसार आचरण करो ॥२४॥ वानराणां जिगीषावृद्धये सुग्रीवोत्कर्षमुखेन तदपकर्षमाह
तुज्झ भुआसु णिसण्यो हरिसत्थो पब्बलो सुराण वि समरे । मारुअलद्धत्थामो ओवग्गइ महिरओ वि ता दिअसअरम् । २५॥ [तव भुजयोनिषण्णो हरिसार्थः प्रबलः सुराणामपि समरे ।
मारुतलब्धस्थामोऽवक्रामति महीरजोऽपि तावद्दिवसकरम् ॥] तव भुजयोनिषण्णः कृताश्रयो हरिसार्थः सुराणामपि समरे प्रबलः । सुरानपि जेतुं समर्थ इत्यर्थः । अर्थान्तरं न्यस्यति-मारुताल्लब्धं स्थानं स्थैर्य येन तथाभूतं महीरजो धूलिरपि दिवसकरमवक्रामत्याच्छादयति । समर्थावलम्बेनासमर्था अप्यतिसमर्थान भिभवन्तीत्यर्थः । प्रकृते मारुतप्रायो भवान् धूलिप्राया: कपयः रवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org