SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ "१२४ ] सेतुबन्धम् [चतुर्थ अहं तच्च हिरण्याक्षस्यापि दैत्यस्य वक्षस्तटं महावराहदंष्ट्राभिन्नं विदारितं सत्तुलितमुत्तोलितं स्मरामि । महीमण्डलमिवेति सहोपमा । यथा तद्दष्ट्रया तुलितं महीमण्डलं स्मरामि तथेदमपीति । द्वयमपि मदग्ने वृत्तमिति भावः । वक्षस्तटं कीदृशम् । उत्खातमुन्मूलितं हृदयं बुक्करूपं वक्षोवति मांसखण्डं तदेव महत्त्वादगिरिस्तस्य बन्धनमवष्टम्भो यत्र । तद्वक्षसि दंष्ट्राभिन्ने हृत्पुण्डरीकखण्डमपि बहिर्गतमित्यर्थः । महिमण्डलमपि दंष्ट्रायोत्थापनदशायां गिरीणामितस्ततो विशीर्य पतितत्वादुत्खातगिरिवन्धनमभूदिति साम्यम् ॥२२॥ विमला-जैसे महावराह की दंष्ट्रा से उठाये गये, अतएव शिथिल पर्वतबन्ध वाले महीमण्डल को वैसे ही महावराह की दंष्ट्रा से विदीर्ण, अतएव उन्मूलित हृदय-(हृदयस्थ मांसखण्ड )-रूप पर्वतबन्ध वाले हिरण्याक्ष के वक्षःस्थल को भी याद रखता हूँ-( दोनों मेरे आगे हुआ है ) ॥२२॥ वृद्धोक्तं परिणामसुरसमतस्तदेवाचरणीय मित्याह धीरं हरइ विसाओ विण जोव्वणमओ अणको लज्जम् । एक्कन्तगहि अवक्खो कि सीसउ जंठवे वपरिणामो॥२३॥ [धैर्य हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् । एकान्तगृहीतपक्षः किं शिष्यतां यत्स्थापयति वयःपरिणामः ॥] एकान्ततस्तत्त्वतो गृहीतः पक्ष: सिद्धान्त इदमित्थमेवेति निर्णयरूपो येन तादृशो वयःपरिणामो वार्धकं कर्तृ विषादो धैर्य, यौवनमदो विनयमनङ्गो लज्जां हरतीत्येवमादिप्रकारेण यत्स्थापयति स्थिरीकरोति । निर्धारयतीति यावत् । तत्कि शिष्यतां कथ्यताम् । एतावदेवेत्यवशिष्यतां परिशिष्यतां वा। वार्ध के बहुविषयज्ञानेन बहुषु परिच्छेद इति बहुतरत्वादुपदेष्टुमशक्यत्वाच्चेति भावः । तथा च मम सर्वत्र परिच्छेदात्मकं ज्ञानमिति गच्छंस्तुणस्पर्शन्यायेन विषादस्य धैर्यनाशकत्वं परिशिंषन्भवतां विषादेन धैर्य नास्तीति कटाक्षयामास । केचित्तु-एकान्ततोऽसाधारण्येन गहीतः पक्षो येनेति विषादादित्रयविशेषणं किमपि न तिष्ठतीत्येवंरूपेण वयःपरि. गामविशेषणं वा । तथा च विषादो धैर्यमेव यौवनमदो विनयमेवानङ्गो लज्जामेव हरति वयःपरिणामस्तेषु यत्स्थापयति तत्कि शिष्यतां परिशिष्यतां वा। अपि तु न किमपि स्थापयति । तथा च विषादादित्रयमेकैकमेव धैर्यादिकं हरति वय:परिणामस्तु त्रितयमपि हरतीति गूढाभिसंधिरयमित्यर्थमाहुः ॥२३॥ विमला-निरपवाद रूप से सिद्धान्त को ही ग्रहण करने वाला वार्धक्य "विषाद धैर्य को, यौवनमद विनय को और अनङ्ग लज्जा को हरता है' इत्यादि 'प्रकार से जो निर्धारित करता है उसे क्या कहा जाय ? ( वार्धक्य के बहुविध अनुभवों को कहाँ तक कहा जा सकता है ? ) ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy