________________
१०४ ] सेतुबन्धम् .
[ तृतीय चन्दन व्व मेहमइलिए रमणीसारअम्मि ___ कमलमम्मि व हिमडड्ढए रअणीसारअम्मि । दुहिए राहवहिपए भमरोअत्तअम्मि
कुसुमम्मि व पव्वाअए भमरोअत्तम्मि ॥४८॥ [चन्द्र इव मेघमलिनिते रजनीसारके कमल इव हिमदग्धे रजोनिःसारके । दुःखिते राघवहृदये भ्रमरोदितव्ये कुसुम इव प्रवाणे भ्रमरापवर्तितव्ये ॥]
राघवहृदये पुनः किंभूते । भ्रमरोदितव्ये धीरोदात्तत्वेन रोदनाभावनिश्चयेऽपि मोहदशायामाकस्मिकेन भ्रमेण सीते क्वासीत्यादि रोदितव्यं रोदनं यत्र तादृशे । संकटोत्तीर्णविश्लिष्टबन्धुप्राप्तिकालीनरोदनवद्भावनावशोपस्थापितसीताप्राप्तिभ्रमेण रोदितव्यं यत्रेति वा । हृदये कस्मिन्निव । मेघमलिनिते मेघच्छन्ने चन्द्र इव । सीतापहारचिन्ताकलङ्कितत्वात् । चन्द्र कीदृशि। रजनीसारके रजनीं सारयति ज्योत्स्नया श्रेष्ठीकरोतीति रजनीसारकस्तस्मिन् । रजनीसारं सुरतं ददातीति रजनीसारदस्तस्मिन्वा । चन्द्रोदये सुरतोद्रेकात् । तथा च तथाविधोज्ज्वलं चन्द्रवन्निर्मलं राघवहृदयं सत्त्वप्रधानमपि मेघतुल्यचिन्तया तिरोहितमभूदिति भावः । एवं हिमेन दग्धे कमल इव सौरभादिवद्वैर्यादिगुण विरहाद्दिवसे यथाकथंचिल्लोकलज्जया प्रकृतकार्योद्योगेन च मनसः प्रकाशेऽपि निशि प्ररूढजानकीविरहेण निरुद्धवृत्तिकतया संकुचितत्वाच्च । कमले किंभूते । रजोनिःसारके रजः परागस्तन्निःसरणहेतौ । हिमदग्धतया पत्राद्यभावेन परागस्खलनात् । अथवा रजो धूलिस्तद्वनिःसारेऽप्रयोजने । मकरन्दादिशून्यत्वात् । निन्दायां कन् । एवं च प्रवाणे शुष्के कुसुम इव नीरसत्वादैन्येन म्लानत्वाच्च । किंभूते कुसुमे । भ्रमरापवर्तितव्ये भ्रमराणामपतितव्यमपवर्तनं यस्मात्तत्र । भ्रमरत्यक्तव्य इत्यर्थः ।। 'युग्मकम् ॥४८॥
विमला--मोहदशा में भ्रमवश रोदनयुक्त राम का हृदय, रजनी के शोभाधायक, किन्तु सम्प्रति मेघाच्छन्न चन्द्रमा के समान अथवा हिम से विनष्ट ( अतएव ) धूलि के समान निःसार कमल के समान अथवा शुष्क ( अतएव ) भ्रमरों से परित्याज्य कुसुम के समान हो रहा है ॥४८॥
यदि व्यवसायो न कर्तव्यस्तदा वीररताः स्त्रियोऽपि विरज्येयुरिति प्रवृत्तिहेतुत्वेन स्मारयितुं गृहगमन प्रस्तावेन भार्यावृत्तान्तमुपदर्शयन्प्रकृतमुपसंहरति
कइया णु विरहविरइअदोब्बल्लपसाहणुज्झिमाहरणाई। णीसासवसपहोलिरलम्बालप्रमलिअपम्हलकमोलाइ ॥४६॥ पिलणिसम्बनलववलिअसिढिलवलअविवइण्णबाहुलपाई। वच्छाम परिप्रणत्थ अकलपेसणलज्जिआ पिनकलत्ताई।।५०॥
( जुग्गअम् ) १. 'युग्मकम्' इति मूलपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org