SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १.२] सेतुबन्धम् [ तृतीय विमला-णत्रु की लक्ष्मी के उपभोक्ता, निजकुलक्रमागत कीर्ति को प्राप्त करने वाले नीति निर्मापक पुरुष का प्राप्त मरण भी श्लाघ्य है, किन्तु मानरहित पुरुष का प्राप्त चिरजीवन श्लाघ्य नहीं ॥४५॥ भवदसंमानादनिष्टशङ्काशून्यैरस्माभिरुपेक्षयानपितचित्तरतिगम्भीरं भवदुक्तं न बुध्यत इत्यत आह एम वि सिरीन दिपा के सरलच्छिाए करकमलस्स अ छिक्कमा केसरलच्छिमाए। मुज्झन्ति सविण्णाणमा समरसंमाणअम्मि एम ममम्मि भणन्तए समरसामणम्मि ॥४६॥ [एवमपि श्रिया दृष्टकाः के सरलाक्ष्याः करकमलस्य च स्पृष्टया केसरलक्ष्म्या। मुह्यन्ति सविज्ञानकाः समरसंमानदे एवमपि भणति समरसमापके ॥] एवमनेन प्रकारेण मयि भणति सति के सविज्ञानकाः। प्रशंसायां कन् । के प्रशस्तविज्ञान विशिष्टाः पुरुषा मुह्यन्ति मोहं गच्छन्ति उक्तमर्थं नावगच्छन्ति । भपि तु न केपीत्यर्थः । तथा च तथा मया स्फुटीकृत्योक्तं यथा सर्व एवावगतवन्त इति भावः । सविज्ञानकाः कीदृशाः । सरले संमुखस्थे अक्षिणी यस्यास्तया सरलाक्ष्या श्रिया दृष्टा अपि । कीदृश्या। कर एव कमलं तस्य केशरवल्लक्ष्मीर्यस्य तेन केसरलक्ष्म्या करतलभागेन स्पृष्टया। करतलवर्तिन्येत्यर्थः । एतावता लक्ष्म्यनुराग उक्तः । तथा च मोहकारणलक्ष्मीसत्त्वेऽपि ज्ञानवन्तस्तल्लक्ष्मीहरणमस्मत्तः शङ्कमाना नोपेक्षां कुर्यः । किं तु मदुक्तमाचरेयुरिति भावः । मयि कीदृशे । समरे संमानं ददातीति समरसंमानदस्तस्मिन् । तथा च न केवलं पूर्वलक्ष्मीरक्षामात्रमेतत्कर्मणा किं त्वग्रे लक्ष्मीलब्धिरपीत्याशयः। पुनः कीदृशे । समरस्य समापके निर्वाहके। तथा चाक्षमयता मया नोच्यते किं तु निर्दोषतासूचनाय । यद्वा समरसमानके समरे साहंकारे। यद्वा समौ युद्ध रसमानौ यस्य तस्मिन्समरसमानके। मानोऽहंकारः । यद्वा समरश्रमानते समरश्रमेण अनतेऽनाकुले । तथा पानुजीविषु सत्सु स्वामिना कार्य क्रियत इत्यनौचित्येऽपि मयैव सर्व निर्वाहणीयमय च भवन्तः शासनीया इति भावः ।।४६॥ विमला-करकमल की केसरवत् लक्ष्मी से स्पृष्ट अर्थात् क रतलवर्तिनी सरलाक्षी विजयश्री तुम्हें देख रही है। मैं स्वयं समर में सम्मानप्रदाता और समर कार्य का पूर्ण रूप से निर्वाहक हूँ। मेरे ऐसा कहने पर भी कौन समझदार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy