________________
माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम्
[१०१ [अन्यदन्यस्य मनो युष्माकं न जानेऽनाधिर्ममात्मा ।
निर्वर्णयत इमं दररूढवणप्रसाधनं हनूमन्तम् ।।] अन्यस्य मनोऽन्यत् स्वमनसो भिन्नम् । अतो युष्माकं मनो न जाने । स्वचितसाक्षिकमेव स्वयं ज्ञायते । ततो युद्धादिकं कर्तुमकतु वा युष्माकं चित्ते किमस्तीति न जानामि । किं तु भवन्त एव जानन्ति । मम पुनरात्मा अनाधिर्भवद्भिर्विना कार्य कथं सिद्धये दित्यन्तर्व्यथाशून्यः । कुत इत्यत आह-मम किंभूतस्य । दररूढः किंचित्संधुक्षितोऽक्षयुद्धकालीनो व्रण एव प्रसाधनमलङ्करणं यस्य निजितविपक्षत्वात् । एतादृशं हनुमन्तं निर्वर्ण यतः पश्यतः। तथा च भवतामौदास्येऽपि ज्ञातप्रकृतकायसामर्यो वचनस्थो हनूमानेव साधयेदित्यध्यवसायवानस्मि । ततस्तमेव मानयिज्यामीति भावः । भवन्तस्त्वकृतकार्यत्वादक्षतत्वाच्च निर्भूषणा एव स्युरिति तात्पर्यम् । यद्वा खड़गाद्यभिघातेन वपुरिदं वैक्लव्यमासादयेदित्यत आह-अण्णो अण्णस्सेति । अयमर्थ:-गुष्माकं मनो न जाने क्षतादिशङ्कया युद्धं प्रत्याधिविशिष्टमाधिशून्यं वेति विशिष्टं न जानामीत्यर्थः । अन्यदन्यस्य मनः । यतः मम पुनरात्मा युद्धं प्रत्यनाधिरन्तर्व्यथाशून्यः । किंभूतस्य । तथाभूतं हन मन्तं निर्वर्णयतः । तथा च युद्धे शौर्य चिह्न क्षतमदृष्टलभ्य मिति तदेवाकाङ्क्षामीति भावः ॥४४॥
विमला-दूसरे का मन दूसरा ही है, अतः तुम लोगों के मन को मैं नहीं जानता, किन्तु ( लंका में निशाचरों का संहार करते समय हुये ) किंचित् उद्दीप्त अणरूप अलङ्करण वाले हनुमान को देख कर मेरी आत्मा तो निश्चिन्त है ।।४४॥ तमु स्माकमसंमानेन का क्षतिरित्यत आहपडिवक्खस्स अ लच्छिअं आसाएन्तएणं
णिअग्रकुलस्य अ कित्तिअं प्रासाएन्तएणम् । मरणं पि वरं लद्धअं णमणिम्माणएणं
पुरिसेण चिरं जीविण प्रणिम्माणएणम् ॥४५॥ [प्रतिपक्षस्य च लक्ष्मीमास्वादयता निजककुलस्य च कीर्तिमासादयता । मरणमपि वरं लब्धकं नयनिर्मापकेण पुरुषेण चिरं जीवितं न च निर्मानकेन ।] - प्रतिपक्षस्य लक्ष्मीमास्वादयता हठादाच्छिद्योपभुजानेन । एतेन बाहुबलमुक्तम् । एवं निजकुलक्रमागतांजीतिमासादयता लभमानेन । एतेनाभिजनशालित्वम् । एवं नयस्य नीतेनिर्मापकेण । अनेनोत्पथगामित्वविरहः । एवं भूतबहुगुणेनापि पुरुषेण दैवानिनिकेन प्रशस्तमानशून्येन सता लब्धम् । स्वार्थे कन् । मरणमपि वरं श्लाघनीयम् । चस्त्वर्थे । न तु चिरं व्याप्य लब्धं जीवितं वरम् । न श्लाघनीयमित्यर्थः । तथाच तथाविधस्य पुरुषस्य मानविरहे जीवितान्मरणमेव गरिष्ठमिति अवन्तोऽपि तथाविधा मानरक्षणाय यतन्तामति भावः ।।४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org