SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६] सेतुबन्धम् [ तृतीय धैर्यं रक्षन्तः सुपुरुषा गुरुमपि भरं धारयन्ति निर्वाहयन्ति । अर्थान्तरं न्यस्यति - स्थानं रविमण्डलममुञ्चन्त एव रविकरास्त्रिभुवनं क्षपयन्ति निर्दहन्ति । तथा च यथा रविकरा रविमण्डलत्यागेनोष्मादिरूपतया निशि व्यवच्छिद्य वर्तमाना अकिंचित्करास्तथा भवन्तोऽपि रविकरप्राया रविमण्डलप्राय धैर्यत्यागेन रामलक्ष्मणरूपनायकानवष्ठब्धा अकिंचित्करा एव स्युरिति धैर्यरक्षया तत्साचिव्येन सर्वं साधयन्त्विति भावः ॥ ३६॥ विमला - धैर्य रखने वाले केवल सुपुरुष ही भारी भार को भी उठाते हैं । रविमण्डल का त्याग न करने वाले रविकर समस्त त्रैलोक्य को सन्तप्त करते हैं । विमर्श - यहाँ पूर्वार्द्ध - प्रतिपाद्य 'सामान्य' रूप अर्थ, उत्तरार्ध - वर्णित 'विशेष' रूप अर्थ से समर्पित हो रहा है, जिसमें साधर्म्य का सम्बन्ध स्पष्ट है । अतः 'अर्धान्तरन्यास' अलंकार है ॥१३६॥ अत्रैतत्कार्यं केचिन्मन्यन्ते केचिन्नेति सकलसंमत्यभावान्न कुर्म इत्यत आहकामर पडिमुक्कधुरं जिणन्ति पत्थाणलग्गिन्धा । पढमं ता णिअअबलं पच्छा पहरेहि सुउरिसा पडिवक्खम् ||४० ॥ [कातरप्रतिमुक्तधुरं जयन्ति प्रस्थानलङ्घिताग्रस्कन्धाः । प्रथमं तावन्निजकबलं पश्चात्प्रहरणैः सुपुरुषाः प्रतिपक्षम् ॥] प्रस्थानेन लङ्घिताग्रस्कन्धा अग्रस्कन्धं सैन्याग्रं तदप्युल्लंघ्य गच्छन्तः सुपुरुषाः कातरेण प्रतिमुक्ता धुरा यत्र तादृशं निजकं बलं तावत्प्रथमं जयन्ति । पृष्ठतः पुरोगमनरूपलङ्घनेनेत्यर्थः । पश्चात्प्रहरणैरस्त्रं : प्रतिपक्षं जयन्तीत्यनुषङ्गः । तथा च यथा विपक्षजयेन यशोलाभस्तथा सजातीयादप्युत्कर्षेणेति शूराणामितरनैरपेक्ष्यमेव सम्यगिति ये न मन्यन्ते ते कातरा इति भावः ॥ ४० ॥ विमला — सेना में कार्यभार वहन करने के अनिच्छुक ( एक-दो ) कायर भी हो सकते हैं । सुपुरुष ( दूसरों की अपेक्षा न कर ) सेना से निकल अग्रगामी बनते हुये सबसे पहिले अपनी उस सेना को ही इस प्रकार जीतते हैं, शत्रु को तो तत्पश्चात् अस्त्रों से जीतते हैं ॥४०॥ भस्माकं दृष्टसामग्रीसाचिव्येऽप्यदृष्टसामग्री वैकल्यशङ्कया शैथिल्यमित्यत आहभण्णेन्ति मङ्गलाई श्रल्लिग्रह सिरी जसो पवड्ढइ पुरनो । पडिवण्णरणुच्छाहे पडिवक्खुद्धरणपत्थिग्रम्मि सुउरिसे ॥४१॥ [ अनुगच्छन्ति मङ्गलान्यालीयते श्रीयशः प्रवर्धते पुरतः । प्रतिपन्नरणोत्साहे प्रतिपक्षोद्धरणप्रस्थिते सुपुरुषे ॥] प्रतिपक्षस्योद्धरणं विनाशस्तदर्थं प्रस्थिते सुपुरुषे शत्रुनाशजन्यानि मङ्गलान्यनुगच्छन्ति संबध्यन्ते जयश्रीरालीयते मिलति यशश्च खड्गादिजनितं प्रवर्धते । तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy