________________
आश्वासः ]
रामसेतु प्रदीप- विमलासमन्वितम्
[ ६७
मुक्तं सलिलं स्तादृशा मेघाः, अभिनवानि दत्तानि फलानि ये, अथवा तत्कालदत्तानि फलानि यैस्तादृशा वृक्षसमूहाः, समरमुखादवहृता अवपातिता मण्डलाग्राः खड्गा येभ्यस्तादृशा भुजा लघवोऽपि गुरवो भवन्ति । अयं भावः:- मेघवृक्षभुजा जलखड्गसत्तादशायां गौरवयुक्ताः स्थिताः अथ जलादीनां मुक्तिदानत्यागदशायां लघुभूता अपि सन्तः सस्योत्पत्ति तृप्तिशत्रुक्षयादिरूपकार्यकारित्वेनादरणीयतारूपगौरवयुक्ता एव भवन्ति । तथा च भवद्भुजा अपि कृतकार्या गुरू भवेयुः, अन्यथा तु लघव एव स्युरिति भावः । विरोधाभाससूचनायापिशब्दः || ३७।।
विमला - जलवृष्टि करने के अनन्तर [ लघु ] जलशून्य भी मेघ, अभिनव फल दे चुकने के अनन्तर [ लघु ] फलशून्य भी वृक्ष, समर में शत्रुक्षयादि कार्य कर चुकने पर [ लघु ] खड्गरहित भी भुज गौरवयुक्त होते हैं ||३७||
अस्माकं युद्धसामग्रये व नास्तीत्यत आह
दपंण सहन्ति भुआ पहरणकज्जसुला घरेन्ति महिहरा । वित्थिष्णो गणवही गिज्जइ कीस गुरुअत्तणं पडिवक्खो ॥ ३८ ॥ ! [दपं न सहन्ते भुजाः प्रहरणकार्य सुलभा धियन्ते महीधराः । विस्तीर्णो गगनपथो नीयते किमिति गुरुत्वं प्रतिपक्षः ॥ ]
युष्माकं भुजाः परेषां दर्पं न सहन्ते तथा च परानेत एव निघ्नन्ति न तु व्यापार्या इति शीघ्रकारिण इत्युक्तम् । एतद्वयापार्यानाह - प्रहरणमस्त्रं प्रहारक्रिया वा तत्कार्ये सुखलभ्या उत्पाटनोद्वहन दुःखनिरपेक्षा महीधरा धियन्ते तिष्ठन्ति । तथा च खड्गादिषु च्छेदभेदशङ्कापीति तच्छून्या इत्यर्थः । पर्वताहरणमार्गो नास्तीत्यत आह-- विस्तीर्णो गगनमेव पन्थाः । गतागतसंकोचशून्य इति भावः । तथापि विपक्ष: किमिति गुरुत्वं नीयते । स्वानध्यवसायेन सर्वेषामादरविषयीक्रियत इति
भावः ||३८||
विमला - ( हमारे ) भुज ( शत्रु के ) दर्प को नहीं सहते हैं, अस्त्र का काम करने के लिये सुलभ पर्वत स्थित ही हैं, उनको लाने के लिये गगन का विस्तृत मार्ग है ही, फिर शत्रु को दुर्जेय क्यों समझ रहे हो ? ||३८||
तर्हि रामलक्ष्मणावप्यपहाय समुद्रमुल्लङ्घय गृहीतमहीधरा लङ्कामिदानीमेवावरोत्स्याम इत्याशङ्कय निवारयति -
धीरं परिरक्खन्ता गरुअं पि भरं धरेन्ति णवर सुउरिसा । ठाणं चिम अमुअन्ता णोसेसं तिहुअणं खवेन्ति रविअरा ॥३६॥ [ धैर्यं परिरक्षन्तो गुरुमपि भरं धारयन्ति केवलं सुपुरुषाः । स्थानमेवामुञ्चन्तो निःशेषं त्रिभुवनं क्षपयन्ति रविकराः ॥]
७ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org