________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम्
[६६ व सत्पुरुष एष रामस्तददृष्टेनैव सर्व संघटनीयमित्यर्थः । कुतो ज्ञायत इत्यत आह-कीदशे। पुरतः प्रस्थानपूर्व प्रतिपन्नः प्राप्तो रणोत्साहो येन, ज्ञातो रणोत्साहो पस्येति वा तादशि । तथा च मनोविशुद्धिरूपयात्रासाद्गुण्यसूचकरणोत्साहेनैव सर्वमिदमुन्नीतमिति भावः । अथ वा पुरतो नगरतः। प्रस्थानस्थानादिति यावत् । अमुगच्छन्ति मङ्गलानीत्यादि योज्यम् । तथा च रामेण सीतामुद्दिश्य चलितेन सीतावार्तालाभनिरङ्कुशहनूमत्समागमादिरूपमङ्गलं वालिवधेन जयलक्ष्मीरत एव प्रौढं यशश्च लब्धमित एवाग्रिमकार्य सिद्धिरपि ज्ञातव्ये ति भावः । 'पुरतो यशो वर्धते' इति केचित् ॥४१॥
विमला-रणोत्साह-सम्पन्न सुपुरुष जब शत्रु का विनाश करने के लिये चल पड़ता है तभी से और वहीं से मङ्गल उसका अनुगमन करते हैं, विजयश्री सामने आकर उससे मिलती है और यश उसके आगे बढ़ता चलता है ॥४१॥
रावणेन समं रामस्य वैरमस्तीति स तथा कुर्यादस्माभिस्तु निर्बीजं तत्कुतः कर्तव्यमित्यत आह
वच्चन्ता अदभूमि कड्ढि असुहडासिवत्तवन्थावडिप्रा । णवर ण चलन्ति बी लुप्रवक्खा महिहर व्व वेराबन्धा ॥४२॥ [वजन्तोऽतिभूमि
कृष्टसुभटासिपत्रपथापतिताः । केवलं न चलन्ति द्वितीयं लूनपक्षा महीधरा इव वैराबन्धाः ॥]
केवलमाबध्यमानवैराणि द्वितीयं पुरुषं न चलन्ति तत्र न संक्रमन्ति। अन्यदन्यत्र निमित्तवशात्संक्रामत्यपि वैरं तु स्वासाधारणसंबन्धि पुरुष एव तिष्ठतीति केवलपदार्थः । कीदृशा वैराबन्धाः । अतिभूमि प्रकर्षकाष्ठां व्रजन्तः । यथा-यथा वरनिमित्तस्मरणं तथा-तथा तद्वृद्धिः । तथा च तथा तद्वर्धते यदुपरि प्रकर्षों न संभवतीत्य तिगौरवमेकमचलननिमित्तमित्यभिप्रायः । एवं पूर्वनिपातानियमात्सुभटेन वैरिणा मारणाय कोषादाकृष्टं यदसिपत्रं तदेव पन्था मार्गस्तेनापतिता आगताः । बड्गादिकमुद्यम्य जिघांसुना पुरुषेण सहोत्पन्नस्य वैरस्य खड्गरूपवगितत्वमुत्प्रेक्षितमनेन । तथा च खड्गेत्युपलक्षणम् । किं तु यदेव यत्र वैरनिमित्तं तदेव तत्र बैरपथ इति प्रकृते वधूहरणरूपं वैरवर्त्म रामसंबद्धमेवेति द्वितीयमचलनबीजमिति वैरं युष्मासु कथं गछेत्तथाप्येकस्य वैरे तदनुयायिनः सर्व एव परम्परासंबद्धवैरास्तत्प्रत्युद्धारमाचरन्तीति भवन्तोऽपि तथा कुर्वन्त्विति प्रघट्टकार्थः । अत्र दृष्टान्तमाह-महीधरा इव । यथा छिन्नपक्षाः शैला यत्र पतितास्ततो द्वितीयस्थानं न गच्छन्तीत्यर्थः । तेऽप्यतिशयितां वह्वीं भूमिमुड्डीय वजन्तः कृष्टसुभटासिपत्रेण पक्षच्छेदहेतुना पथ उड्डयनमार्गादापतिताः । भूमावित्यर्थात् । केचित्तु-'वैराबन्धा द्वितीयं न चलन्तीति प्रत्येकमेव वैरिणः प्रत्येकमेव तदु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org