SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६०] सेतुबन्धम् [ तृतीय ___ चिरं व्याप्य प्रवृत्तानि वहद्रूपाणीत्याभ्यसिक वेगवत्त्वम् । समुद्रवद्गभीराणीत्यसाध्यसेतुकत्वम् । एवंभूतान्यपि नदीस्रोतांसि प्रतिपथं विपरीतमार्ग पश्चान्नीयन्ते उपायेन नेतु शक्यन्ते । सत्पुरुषाः पुनरनिष्पादितप्रेषणाः सन्तः परावर्तयितु न शक्यन्ते । प्रेषणमीश्वराज्ञा । तथा च जलस्याचेतनस्य स्वाभाविकक्रमतः परावृत्तिरूपायसाध्या न त्वजडानां चेतनानामिति राजाज्ञानिष्पत्तिरेव पुरुषार्थ इति भावः ॥२४॥ विमला-चिरकाल से बहने वाले, समुद्रवत् गंभीर नदियों के प्रवाह उपायों द्वारा उलटे बहाये जा सकते हैं,किन्तु स्वामी की आज्ञा को बिना पूरी किये सत्पुरुष किसी भी उपाय से लौटाये नहीं जा सकते ॥२४॥ समुद्र विमर्दः कदापि केनापि न कृत इति कपिभिः कथं कतुं शक्यत इत्यत आह जो लधिज्जइ रइणा जो वि खविज्जइ खाणलेण वि बहुसो। कह सो उइअपरिहो दुत्तारो त्ति पवआण भण्णउ उही ॥२५॥ [यो लध्यते रविणा योऽपि क्षप्यते क्षयानलेनापि बहुशः । कथं स उदितपरिभवो दुस्तार इति प्लवगानां भण्यतामुदधिः ॥] रविलयितत्वात्क्षयानलेनापि बहुशः क्षपितत्वाच्चोदितो जातः पराभवो यस्य तादृगप्युदधिः प्लवगानां दुस्तरणीय इति कथं भण्यताम् । भणितुमप्ययोग्यमिदमित्यर्थः । प्लवेन' गच्छन्तीति प्लवगाः । उदकं निधीयतेऽत्युदधिरिति च समुद्रगञ्जनसामग्रीकथनम् । तथा च वान रा अलंध्यमपि लङ्घन्ते, अदाह्यमपि दहन्ति, किं पुनस्तरणिल ङ्घितमनलदग्धं वा समुद्रम् । यथादृष्टपरकृतकार्यानुकारित्वादिति भावः । उचितपरिभवो योग्यपरिभव इति वा ॥२५॥ विमला-यह कहना भी शोभा नहीं देता कि वानरों के लिये समुद्र दुस्तर है, जब कि सूर्य इसे लाँघा ही करता है, प्रलयानल भी इसे बहुत बार दग्ध कर चुका है और इस प्रकार इसका पराभव सर्वविदित है ॥२५॥ तथापि समुद्रलङघनमतिदुष्करमिति न तथा कर्तव्यमित्यत भाहचिन्तिज्जउ दाव इमं कुलवचएसक्खमं वहन्ताण असम् । लज्जाइ समुदस्स वि दोण्ह वि कि होइ दुष्करं बोलेउम ॥२६॥ [चिन्त्यतां तावदिदं कुलव्यपदेशक्षमं यशो वहताम् । लज्जायाः समुद्रस्यापि द्वयोरपि किं भवति दुष्करं व्यतिक्रमितुम् ।।] युष्माभिरिदं तावच्चिन्त्यताम् । किं तत् । कुलस्य वंशस्य व्यपदेशेऽस्मिन्कुले इदमनुरूपमिति कथने क्षमं योग्यं यशो वहताम् । युष्माकं लज्जायाः समुद्रस्यापि द्वयोरपि मध्ये किं वस्तु व्यतिक्रमितुं लघितु दुष्करं भवति । शतयोजनावच्छिन्नस्य स मुद्रस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy