________________
- द्वितीयः सर्गः -
[ २४ हरिणील- सिणिद्ध ] - हरिनीलस्निग्धमुग्धशोभे तव संक्रान्तमुरसि रम्यरूपम्, कृष्णाचलधातुरागकल्पं स्तनकुम्भाभ्यां मामि कुङ्कुममेनत् ॥ २४ ॥
[ २५ अह वाहरइ ] - अथ व्याहरति स्म वासुदेवः सुमहत्तव सुभ्रु साहसिक्यम्, इह यानि मया विवक्षितानि हृतानि त्वया तान्यक्षराणि ॥ २५ ॥
[ २६ विअसंत ] विकसन्मुखारविन्द निर्यद्भमरालापच्छलाभिलावाचम्, प्रतिपालयति किं नु मल्लिकाक्षो नलिनीं किंतु सरति दृष्टिमात्राम् ॥ २६ ॥
[ २७ मह माणिणि ] मम मानिनि कार्यगौरवेण परवतो न तव कुम्भस्थूल, परिरब्धुमवसर उरोजौ स्ववश एव क्षमो हि कामतन्त्रे' ॥ २७ ॥
[ २८ अहमेहिमि ] -- अहमेष्यामि तावद्भूपसेवानिगलान्मम यावद्भवेन्मोक्षः, न हि कैरविणीं स्प्रष्टुमीशो घनरुद्धप्रसरः स चन्द्रमा अपि ॥ २८ ॥
[ २९ अह णो ] – अथ नौ हृदयेप्सितानि पश्चात् शशिज्योस्नोन्मृष्टासु यामिनीषु, सुजनानां सभासु सत्कवीनां वचनानीव प्रथन्तां क्रीडितानि ॥ २९ ॥
[ ३० इअ तं पिअ ] - इति तां प्रियदर्शनां भणन मुदितामेव
१ [ दृष्टमात्रम् ]. r कामतन्त्रः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org