SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६४ -संस्कृतच्छाया [४ णवरं ण लहिस्सइ ] केवलं न लप्स्यत इति नेदं वसनं भोजपतेर्याच्यमानम् , नन्विदमेव युष्मच्छीर्षच्छेदस्यापि भो भविष्यति कारणं जानीतम् ॥ ४ ॥ [५ अभणिज्जवउ-]-अभणितव्यवचउद्गमेन जाल्मा अनुभवन्ति स्फुटमात्मनो विनाशम् , चपलां लब्ध्वा पक्ष्मपालों' शलभाः किं न म्रियन्ते हव्यवाहे ॥ ५ ॥ [६ अह हो -अथ भवतु सह एकवारमहं युवयोर्बालचापलानि, न सहेत नराधिप इमानि यदि स श्रोष्यति वात्सल्यवन्ध्यः ॥६॥ [७ इअ सो कडु]-इति स कटु भाषित्वा यावत्प्रहसन्नेवापक्रमितुं प्रवृत्तः, सहसा मधुसूदनेन तावद्वसनानि हृतान्यस्य करात् ॥७॥ [८ अहिहोदु-मणस्स ]-परिभवितुमनसः क्रोधभाराद्रभसोत्थापितयष्टिपाणेरस्य, अथ तत्क्षणनखकोटिरुग्णं पर्यपाटयत् शिरः श्रियो नाथः ॥ ८ ॥ [९ णिअ-पंक ] निजपङ्कविशोधनावदातो रजकस्याभ्यधिकं लघूभवन, प्राविशत् सदाप्रकाशमात्मा वसनानां निकरश्च वासुदेवम् ॥९॥ [१० सिअएहि ]--सिचयैः सितैरस्ये शरीरं वसितैः अलसत् तमालनीलम्, कनकोज्ज्वलमेखलाभिरामं शशिमयूखैरिव नीलशैलशृङ्गम् ॥ १० ॥ १ [ पक्षपाली ]. २ [ अभिभवितु ]. ३ [ परिपाटयति ]. ४ [ प्रविशति ]. ५M लितैरस्य. ६ [ लसति ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy