________________
~प्रथमः सर्गः
[५० जहिं च]-यस्मिंश्च वृन्दावनमेकमन्दिरं मणिप्रदीपो मृगलाञ्छनः स्वयम् , नवा च शय्या तरुपल्लवावली वसन्तपुष्पाणि च भूषणानि नः ॥ ५० ॥
[५१ गओ स कालो]-गतः स कालो गजगामिनीजना मनोरथेभ्यः कुर्मः तिलाञ्जलिम् , सुखस्य सर्वस्यापि मूलकारणं जनो गतो यजनलोचनाञ्जनम् ॥ ५१ ॥
[५२ कआ णु कण्हस्स]-कदा नु कृष्णस्य कपोलघूर्णनशीलस्फुटप्रभामण्डलकुण्डलोज्ज्वलम् , सुपक्कबिम्बीफलपाटलाधरं मुहूर्त प्रेक्षिध्यामहे मुखाम्बुजम् ॥ ५२ ॥
[५३ कआ णु पीण ]-कदा नु पीनस्तनगाढपीडनामृद्यमानोज्ज्वलवन्यमालिकम् , आभ्यां दोभ्यां परिवेष्ट्यास्य विशालमालिशिष्यामो भुजान्तरम् ॥ ५३ ॥
[५४ असंक-संकेअ]-अशङ्कसङ्केतलतागृहोदरस्थितस्य मार्गप्रहितेक्षणस्यास्य, जवेन गत्वा यथेष्टचेष्टितं कदा नु वा पास्यामोsधरामृतम् ॥ ५४ ॥
[५५ इअ-प्पलावं ]-इतिप्रलापं प्रियविप्रवासजप्रकामशोकातुरमङ्गनाजनम् , मुकुन्दवाचा स गान्दिनीसुतः समागतो अजल्पत् किमपि सादरम् ॥ ५५ ॥
[५६ अहीरमाहीर ]--अधीरमाभीरनितम्बिनीजना मुगु खलु यूयं विलपथ विह्वलम् , कथं नु वो मुञ्चति चञ्चलेक्षणाः क्षणमपि स युष्मद्वशंवदो हरिः ॥ ५६ ॥
१M तिलकाजलिं. २ ॥ इति प्रकामं, 'T इति प्रलापः.३ [जल्पति ]. ४ मुग्धा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org