________________
-प्रथमः सर्गः
[ २५ स गंदगोवो ]-स नन्दगोपोऽपि समित्रबान्धवो जवात् समाव्रजतु मम मन्दिरम् , अतुच्छो युष्माकं वीक्षणादरो ममेति तेनैव सर्वमीरितम् ॥ २५ ॥
[२६ इमस्स कज्जस्स ]--अमुष्य कार्यस्य शरीरमीदृशं यस्मिन् खलु प्राणायते विप्रलम्भनम् , न व्रज वा नन्दजै व्रज वा त्वं विधिनिषेधोऽपि न दूतकर्तृकः ॥ २६ ॥
[२७ पवट्टए चाव-]-प्रवर्तते चापमख इति कौतुकं निवर्तते वञ्चनसाधनमिति तद् , द्विधा वले भ्रातर्भावबन्धनं ममेति तमजल्प रोहिणीसुतः ॥ २७ ॥
[२८ इदं वओ]-इदं वचो अभण्यते वन्यमालेिना अलं कुतर्केण प्रलम्बसूदन, अकार्यसजानां हि शत्रुसंभवः कुतो भयं कार्यपथोन्मुखानां नः ॥ २८ ॥
[२९ अह प्फुडं ] -अथ स्फुटं करिष्यति साहसं यदि क्षयं स्वयं यास्यति प्राकृतो जनः, समिद्धमग्निं ग्रसितुं समुत्थितो न दह्यते किं शलभानां संचयः ॥ २९ ॥
[३० विसुद्ध-सीले ]--विशुद्धशीलान् विमदच्छल कमो न कोऽप्यस्मान् स्प्रष्टुं प्रगल्भते, नभसि तारानिकरान्समुज्ज्वलान् निशान्धकारो मलिनयति किं भण || ३० ॥
१ [ अस्य ]. २ ॥ नन्द. ३ ॥ निषेधो हि. ४ [ तं जल्पति ]. ५ [ भण्यते ]. ६ विशुद्धशीलो, T °शीला. ७ T विमत', . विमच्छल°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org