________________
-संस्कृतच्छाया
[१८ णिसिज्झए ]-निषिच्यते माधव मातुलेन ते विजृम्भ- माणेनेव पापराशिना, अमुष्य प्रत्यक्षनिरीक्षणोत्सवो मुखस्य यद्वा विधिवामता खलु सा ॥ १८ ॥
[१९ ममंमि तुटुं]मयि तुष्टं विधिना नु सांप्रतं महान्ममैव नु पुण्यसंभवः, यदद्य तेनैव भोजराजेन विसृष्टोऽहं त्वयि कार्यगौरवात् ॥१९॥
[२० सुणाहि तासेण ] -शृणु त्रासेन सदा समाकुलो यदीहते माधव ते स मातुलः, स वञ्चयितुं वाञ्छति त्वामिह सांप्रतं जगते यो ददासि खलु कामपि संपदम् ॥ २० ॥
[२१ पलंब-बाहुस्स ]-प्रलम्बबाहोर्वधाय यस्य ते प्रलम्बकेशिप्रमुखा न पारिताः, तमात्मना संप्रति संप्रमर्दितुं तमःप्रधानः स हि सन्नाति हि ॥ २१ ॥
[२२ धराहिणाहो ]-धराधिनाथो धनुरुत्सवच्छलात् खलत्रिलोकीपते हिंसितुं त्वाम्, समं समारभते कुम्भिराजेन समं च मल्लैः स मञ्चमास्थितः ॥ २२ ॥
[२३ रहम्मि ]-रहस्याहूय राजपांसनो बभाणे मां किमपि स तदपि श्रूयताम्, अमन्दमक्रूर व्रज गोकुलं भण बालावपि च रामकेशवौ ॥ २३ ॥
[२४ चअत्थि भोआहिव ]-चकास्ति भोजाधिपबाहुपालिते शरासयज्ञो मधुरॉमहागृहे, तदीक्षितुं वा यदि किमपि कौतुकं ततः समागच्छतं पश्यतमुत्सवम् ॥ २४ ॥
१ [ अस्य ]. २ [ त्वामपि ]. ३ r omits some portion. ४ [ अभणत् ].५ [ मथुरा ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org