________________
अइवल्लहंपि वीसरइ माणूसं देसकाले अंतरियं । वल्लीसमं हि पिम्मं जं आसन्नं तहिं चडइ ॥ १७२ ॥ वच्चंति वासराइं मह पिउणो तीए गाढरत्तस्स । सिढिलीकयसेसोरोहरमणिगमणाइचेट्ठस्स ॥ १७३ ॥ अह अन्नया कयाइवि कणगवईए सुओ समुप्पन्नो । सुरहोत्ति विहियनामो पत्तो सो कुमरभावम्मि ॥ १७४ ॥ अन्नदियहम्मि एयं एगंते भणइ कणगवई देवी । जुवरायपए किं नवि अहिसिच्चइ देव! मे पुत्तो ॥ १७५ ॥ तो भणइ नरवरिंदो जेठे पुत्तम्मि सुप्पइट्ठम्मि । विजंते न हु जुत्तं जुवरायं ठाविउं सुरहं ॥ १७६ ॥ भणियं देवीए तओ जेटुट्ठवणे निहोडउ को णु? । जइ तुज्झ अहं दइया ता सुरहं कुणसु जुयरायं ॥ १७७ ॥ अतिवल्लभमपि विस्मरति मनुष्यं देशकालान्तरितम् । वल्लीसमं हि प्रेम यदासन्नं तस्मिंश्चटति ॥ १७२ ॥ व्रजन्ति वासराणि मम पितुस्तस्यां गाढरतस्य । शिथिलीकृतशेषाऽवरोधरमणीगमनादिचेष्टस्य ॥ १७३ ॥ अथान्यदा कदाचिदपि कनकवत्याः सुतः समुत्पन्नः । सुरथ इति विहितनामा प्राप्तस्स कुमारभावे ॥ १७४ ॥ अन्यदिवसे एतदेकान्ते भणति कनकवती देवी । युवराजपदे किं नाऽपि अभिषिच्यते देव ! मम पुत्रः ? ॥ १७५ ॥ ततो भणति नरवरेन्द्रो ज्येष्ठे पुत्रे सुप्रतिष्ठे । विद्यमाने न खलु युक्तं स्थापयितुं सुरथम् ॥ १७६ ॥ भणितं देव्या ततो ज्येष्ठस्थापने निवारयतु को नु ? । यदि तवाऽहं दयिता तर्हि सुरथं कुरु युवराजम् ॥ १७७ ॥ १. अन्तरितं =व्यवहितम् । २. प्रेम । ३. अवरोधः =अन्तःपुरम् । ४. अभिषिच्यते । ५. विद्यमाने । ६. निवारयतु ।
सुरसुन्दरीचरित्रम्
द्वितीयः परिच्छेदः
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org