________________
अक्खलियं च विहारं वियरित्ता मुणि-जणस्स देसेसु । साहम्मिय-वच्छल्ले निय-सामंते निओइत्तौ ॥ ५ ॥ काउं सत्तागाराइं विवह-रुवाइं ठाण-ठाणेसु । दिजंत-जंतु-पत्थिय-समत्थ-वर-वत्थु-सत्थाई ॥ ६ ॥ पालेइ रज्जमणवज-कज्ज-पैय-पालणिक्क-वावारं । कय-दुट्ठ-धेट्ठ-उल्लुंठ-वंठ-कय-उग्ग-निग्गहणं ॥ ७ ॥ पणय-जण-जणिय-तोसं वसीकयासेस-सत्तु-संताणं । आणंदिय-जियं-सत्थं कय-सुत्थ-समत्थ-दुग्ग-पहं ॥ ८ ॥ इय मयरकेउ-रन्नो सुरसुंदरि-पमुह-देवि-जुतस्स । धम्मत्थ-काम-सारं विसय-सुहं अणुहवंतस्स ॥ ९ ॥
अस्खलितं च विहारं विरचय्य मुनिजनस्य देशेषु । साधर्मिकवात्सल्ये निजसामन्तान् नियोज्य ॥ ५ ॥ कृत्वा सत्रागाराणि विविधरूपाणि स्थानस्थानेषु । दीयमानजन्तुप्रार्थितसमस्तवरवस्तुसार्थानि ॥ ६ ॥ पालयति राज्यमनवद्यकार्यप्रजापालनैकव्यापारम् । कृतदुष्टधृष्टोल्लण्ठवण्ठकृतोग्रनिग्रहणम् ॥ ७ ॥ प्रणतजनजाततोषं वशीकृताशेष-शत्रुसन्तानम् । आनंदितजीवसार्थकृतसुस्थसमस्तदुर्गपथम् ॥८ ॥ अष्टभिः कुलकम्॥ इति मकरकेतुराज्ञः सुरसुन्दरिप्रमुखदेवीयुक्तस्य । धर्मार्थकामसारं विषयसुखमनुभवतः ॥ ९ ॥
१. अस्खलितम् । २. साधर्मिकवात्सल्ये । ३. नियोज्य। ४. सत्रागारम्-दानगृहम् । ५. पयपालणं-प्रजापालनम्। ६. धट्ठो-धृष्टः, B विट्ठ । ७. वंठो-भृत्यः (N. P.34) । ८. जियसत्थोः जीवसार्थः । ९. B अष्टभिः कुलकम् ।
६३४
षोडशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org