________________
कइवयदिणेहिं इंतो इमाइ अडवीइ वाणियगसत्थो । मह पुरिसेहिं विलुत्तो पत्तं वित्तं तहिं पउरं ॥ ४८ ॥ अन्नं च तत्थ पत्ता तुक्खारतुरंगमा बहुविहीया । ताणावाहणहेउं अज्जेव पभायसमयम्मि ॥ ४९ ॥ बाहिं नीहरिओ हं कमेण तुरगे ओ जाव वाहेमि । ताविक्केणं सहसा हरिओ विवरीयसिक्खेण ॥ ५० ॥ युग्मम् ॥ अविय । जह जह ओक्खंचिजइ तह तह वेगं पगिण्हमाणेण । भयवं ! तुरगंमेण इहाणिओ आसमे तुम्ह ॥ ५१ ॥ एवं च जाव साहइ सो सुरहो कुलवइस्स वुत्तंत । तुरयमणुमग्गलग्गं ताव य सिन्नपि से पत्तं ॥ ५२ ॥ अह भणियं सुरहेणं भयवं ! वच्चामि निययठाणम्मि । जं किंचि मए इण्डिं कायव्वं तं च आइससु ॥ ५३ ॥
कतिपयदिनैर्यन् (गच्छन्) अस्यामटव्यां वणिक्सार्थः । मम पुरुषै-विलुप्तः प्राप्तं वित्तं तस्मिन् प्रचुरम् ॥ ४८ ॥ अन्यञ्च तत्र प्राप्तास्तुषारतुरङ्गमा बहुविधिकाः । तेषामावहनहेतुमद्यैव प्रभातसमये ॥ ४९ ॥ बहिं निःसृतोऽहं क्रमेण तुरङ्गान् ओ यावत् वाहयामि । तावदेकेन सहसा हृतो विपरीतशिक्षेण ॥ ५० ॥ युग्मम् ॥ अपि च ! यथा यथा आकृष्यते तथा तथा वेगं प्रगृह्यमानेन । भगवन् ! तुरङ्गमेनेहाऽऽनीतोऽऽश्रमे तव ॥ ५१ ॥ एवञ्च यावत् कथयति स सुरथः कुलपतेर्वृत्तान्तम् ।। तुरङ्गमनुमार्गलग्नं तावच्च सैन्यमपि तस्य प्राप्तम् ॥ ५२ ॥ अथ भणितं सुरथेन भगवन् ! व्रजामि निजकस्थाने । यत्किञ्चिद् मयेदानी कर्तव्यं तच्चाऽऽदिश ॥ ५३ ॥ १. इतो-यन् गच्छन् । २. विलुप्तः लुण्ठितः । ३. आकृष्यते । ४. आदिश-अनुजानीहि ।
सुरसुन्दरीचरित्रम्
एकादश: परिच्छेदः
४३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org