________________
इय भणिय तावसीए नीया हं आसमम्मि रम्मम्मि । पडिजग्गिया य सम्मं निक्कारणवच्छलत्तेण ॥ २४ ॥ अह कइवयदिवसेहिं संजाया सत्थदेहिया मणयं । अन्नम्मि दिणे नीया तीए हं कुलवइसमीवे ॥ २५ ॥ तीएवि पुव्वभणिओ वुत्तंतो साहिओ कुलवइस्स । करुणापरेण तेणवि अणुसट्ठा महुरवयणेहिं ॥ २६ ॥ वच्छे ! इह संसारे सुलहाइं एरिसाइं दुक्खाई । अकयम्मि सुहनिमित्ते धम्मे परलोयबंधुम्मि ॥ २७ ॥ जायंति दूसहाई जेणं चिय एत्थ दुसहदुक्खाई । तेणेव चत्तरज्जा वणवासमुवागया धीरा ॥ २८ ॥ एवं भणमाणस्स उ कुलवइणो तीइ तावसीइ अहं । कन्ने होउं भणिया भयवं वरनाणजुत्तोऽयं ॥ २९ ॥
इति भणित्वा तापस्या नीताऽहमाश्रमे रम्ये । प्रतिजागरिता च सम्यक् निष्कारणवात्सल्यत्वेन ॥ २४ ॥ अथ कतिपयदिवसैः सञ्जाता स्वस्थदेहा मनाम् । अन्ये दिने नीता तयाऽहं कुलपतसिमीपे ॥ २५ ॥ तयाऽपि पूर्वभणितो वृतान्तः कथितः कुलपतेः । करुणापरेण तेनाऽपि अनुशास्ता मधुरवचनैः ॥ २६ ॥ वत्से ! इह संसारे सुलभानि एतादृशानि दुःखानि । अकृते शुभनिमित्ते धर्मे परलोकबन्धौ ॥ २७ ॥ जायन्ते दुःसहानि येनैवात्र दुःसहदुःखानि । तेनैव त्यक्तराज्या वनवासमुपागता धीराः ॥ २८ ॥ एवं भणतस्तु कुलपतेस्तया तापस्याऽहम् । कर्णे भूत्वा भणिता भगवन् ! वरज्ञानयुक्तोऽयम् ॥ २९ ॥ १. चत्तरजो-त्यक्तराज्यः ।
सुरसुन्दरीचरित्रम्
एकादश: परिच्छेदः
४२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org