SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ भयकंपंतसरीरा ताहे एयं दिसं गहेऊण । संजायदिसामोहा चलिया तरुगहणमज्झेण ॥ २१५ ॥ दूरं गंतूण पुणो वलिया वच्चामि पिओहुतं । सिरिदत्तजणगवेसणपरायणा तत्थ वणगहणे ॥ २१६ ॥ अह भयतरलच्छीए इओ तओ तत्थ परिभमंतीए । उम्मग्गगमणभज्जं तकंटयाइन्नचरणाए ॥ २१७ ॥ पहसम सुढियाइ दढं पए पए नीसहं कैणंतीए । वसिमन्नेसणहेउं चडिऊण थलम्मि एगम्मि ॥ २९८ ॥ जा पुलइयं समंता ताव न दीसइ कहंपि वसिमंति । वियरंत वालनिवहा समंतओ भीसणा अडवी ॥ २१९ ॥ तिसृभिः कुलकम् ॥ अविय । कत्थ य करालकेसरिगुंजियसवणुत्तसंतसारंगा । कत्थइ महंतजुज्झंतमत्तवणमहिसयाइन्ना ॥ २२० ॥ भयकंपमानशरीरा तदा एतां दिशं गृहीत्वा । सञ्जातदिग्मोहा चलिता तरुगहनमध्येन ॥ २१५ ॥ दूरं गत्वा पुनर्वलिता व्रजामि पृष्ठतोमुखम् । श्रीदत्तजनगवेषणपरायणा तत्र वनगहने ॥ २१६ ॥ अथ भयतरलाक्ष्या इतस्ततस्तत्र परिभ्राभ्यन्त्या । उन्मार्गगमनभज्यमानकण्टकाऽऽकीर्णचरणया ॥ २१७ ॥ पथश्रमश्रान्तया दृढं पदे पदे निःसहं क्वणन्त्या । वसतिगवेषणहेतुं चटित्वा स्थलैकस्मिन् ॥ २१८ ॥ यावत् दृष्टं समन्तात्तावन्न दृश्यते कथमपि वसतीति । विचरन्तो व्यालनिवहाः समन्ताद्भीषणाऽटवी ॥ २१९ ॥ तिसृभिः कुलकम् ॥ अपि च । कुत्र च करालकेसरिगुञ्जितश्रवणोत्त्रस्यत्सारङ्गाः । कुत्रापि महद्युध्यमानमत्तवनमहिषाकीर्णाः ॥ २२० ॥ १. पृष्टतोमुखम् ; प्रत्यावृत्तेति समुदितार्थः । २. सुढिया : = श्रान्ता । ३. 'क्वण शब्दे' क्वणन्त्या । ४. वसतियुक्तस्थानगवेषणहेतोः । ५. आरुह्य । ६. वालो व्यालः । ७. सारङ्गः - हरिणः । सुरसुन्दरीचरित्रम् Jain Education International दशमः परिच्छेदः For Private & Personal Use Only ४१७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy