________________
सेसं च सुविणजाणगपुच्छगविहिणा वियाणिउं तुज्झ । साहिस्सं मा काहिसि उव्वेगं किंचि हिययम्मि ॥ ६५ ॥ तत्तो पभायसमए गंतुं अत्थाणमंडवे राया । आणवइ सुमिणसत्थत्थजाणए झत्ति वाहरह ॥ ६६ ॥ तत्थ निउत्तनरेहिं तहेव संपाडियाए आणाए । सामंतमंतिपुरनायगेहिं पुन्नम्मि अत्थाणे ॥ ६७ ॥ कयविणया सुविणन्नू उवविट्ठा अह नरिंदआसन्ने । धणदेवोवि हु रन्नो आसन्नो चेव उवविठ्ठो ॥ ६८ ॥ युग्मम् ॥ तत्तो रन्ना तेसिं सिट्ठो सुरदंसणाइवुत्तंतो । पुव्वुत्तो सव्वोवि हु सुविणगउवलंभअवसाणो ॥ ६९ ॥ सम्मं विणिच्छिऊणं सुविणसरूवं कहेह भो ! तत्तं । इय भणिया ते रन्ना अन्नोन्नं जाव चिंतिंति ॥ ७० ॥
शेषं च स्वप्नज्ञापकपृच्छकविधिना विज्ञाय तव । कथयिष्यामि मा करिष्यसि उद्वेगं किञ्चिद्धदये ॥ ६५ ॥ ततः प्रभातसमये गत्वाऽऽस्थानमण्डपे राजा । आज्ञापयति स्वप्नशास्त्रार्थज्ञापकान् झटिति व्याहरत ॥ ६६ ॥ तत्र नियुक्तनरैस्तथैव संपादितायामाज्ञायाम् । सामन्तमन्त्रीपुरनायकैः पूर्णेऽऽस्थाने ॥ ६७ ॥ कृतविनयाः स्वप्नज्ञा उपविष्टाः अथ नरेन्द्राऽऽसन्ने । धनदेवोऽपि खलु राज्ञ आसन्नैवोपविष्टः ॥ ६८ ॥ युग्मम् ॥ ततो राज्ञा तेषां शिष्टः सुरदर्शनादिवृतान्तः ।। पूर्वोक्त: सर्वोऽपि खलु स्वप्नोपलभ्मावसानः ॥ ६९ ॥ सम्यग् विनिश्चित्य स्वप्नस्वरुपं कथयत भोः ! तत्वम् । इति भणिता ते राज्ञाऽन्योन्यं यावच्चिन्तयन्ति ॥ ७० ॥
१. विज्ञाय । २. आस्थान-सभा । ३. संपादितायां-परिपालितायाम् । ४. स्वप्नज्ञाः । ५. पूर्वोक्तः । ६. विनिश्चित्य-निर्णीय ।
३९२
दशमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org