________________
तारिसगुणजुत्तस्सवि सरलसहाक्स्स सुप्पइट्ठस्स । निग्घिणकणगवईए हा ! हा ! कह दारुणं विहियं ? ॥ २२८ ॥ माइंदजालसरिसं सव्वं एयम्मि हंदि ! संसारे । खणदिट्ठनट्ठरूवं धणपरियणजीवियव्वाइं ॥ २२९ ॥ न य नजइ किं जायं महाणुभावस्स सुप्पइट्ठस्स । किं जीवइ अहव मओ संगामे एत्थ जुज्झंतो ? ॥ २३० ॥ एमाइ चिंतयंतो धणदेवो आगओ निजे सत्थे । अह कमसो संपत्तो सत्थजुओ हत्थिणपुरम्मि ॥ २३१ ।। तुट्ठाओ जणणिजणया सव्वे आणंदिया वयंसा से । सोहणदिवसे वहुया पवेसिया निययगेहम्मि ॥ २३२ ॥ अह पुव्वसिणेहेणं सिरिकंता सासुयाइणुनाया । नियचेडिजुया पत्ता कमलावइदेविगेहम्मि ॥ २३३ ॥
तादृशगुणयुक्तस्याऽपि सरलस्वभावस्य सुप्रतिष्ठस्य । निघृणकनकवत्या हा ! हा ! कथं दारुणं विहितम् ? ॥ २२८ ॥ मायेन्द्रजालसदशं सर्वमेतस्मिन् हन्दि ! संसारे। क्षणदृष्टनष्टरूपं धनपरिजनजीवितव्यादिनि ॥ २२९ ।। न च ज्ञायते किं जातं महानुभावस्य सुप्रतिष्ठस्य । किं जीवति अथवा मृतः संग्रामेऽत्र युध्यमानः ॥ २३० ॥ एवमादि चिन्तयन् धनदेवोऽऽगतो निजे सार्थे । अथ क्रमशः संप्राप्तः सार्थयुक्तो हस्तिनापुरे ॥ २३१ ॥ तुष्टौ जननीजनकौ सर्वेऽऽनंदिता वयस्यास्तस्य । शोभनदिवसे वधूका प्रवेशिता निजकगेहे ॥ २३२ ॥ . अथ पूर्वस्नेहेन श्रीकान्ता श्वश्र्वाऽनुज्ञाता । निजचेटीयुक्ता प्राप्ता कमलावतीदेवीगेहे ॥ २३३ ॥
१. मायेन्द्रजालसदृशम् । २. वयस्याः मित्राणि । ३. सासुयाइणुनाया श्वश्रवाऽनुज्ञाता। ४. चेटी-दासी ।
-
सुरसुन्दरीचरित्रम्
नवमः परिच्छेदः
३७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org