________________
तुज्झ पभावा सुरवर ! जाओ हं सत्थमाणसो इण्डिं । कायव्वं जं किंचिवि संपइ आइससु तं सव्वं ॥ १२६ ॥ भणियं देवेण तओ हवइ हु देवाण दंसणममोहं । तो भणसु भद्द ! किंचिंवि जेण तयं तुह पयच्छामि ॥ १२७ ॥ तो भणइ चित्तवेगो जइ एवं देसु मज्झ तं किंचि । नहवाहणखयरो जह न सक्कए मं पराभविउं ॥ १२८ ॥ भणियं देवेण तओ महिलासहियस्स पहरिओ जं सो । विजाहरकयमेरं विलधिउं दप्पवामूढो ॥ १२९ ॥ तेणेव कारणेणं विज्जाच्छेओ इमस्स संजाओ । ता संपइ असमत्थो भद्द ! तुम सो पराभविंउ ॥ १३० ॥ अन्नं च ॥ किल पुव्ववेरिएणं अवहरिओ जायगरुयरोसेण । तो चित्तवेग ! खयराहिवस्स गेहम्मि वड्डिहिसि ॥ १३१ ॥
तव प्रभावात् सुरवर ! जातोऽहं स्वस्थमानस इदानीम् । कर्तव्यं यत्किञ्चिदपि संप्रति आदिश तत्सर्वम् ॥ १२६ ॥ भणितं देवेन ततो भवति खलु देवानां दर्शनममोघम् । तर्हि भण भद्र ! किञ्चिदपि येन तद् तव प्रयच्छामि ॥ १२७ ॥ ततो भणति चित्रवेगो यद्येवं देहि मम तत्किञ्चित् । नभोवाहनखेचरो यथा न शक्यते माम् पराभवितुम् ॥ १२८ ॥ भणितं देवेन ततो महिलासहितस्य प्रहृतक यत् सः । विद्याधरकृतमेरां विलङ्थ्य दर्पव्यामूढः ॥ १२९ ॥ तेनैव कारणेन विद्याच्छेदोऽस्य सञ्जातः । तस्मात् संप्रत्यसमर्थो भद्र ! त्वां स पराभवितुम् ॥ १३० ॥ अन्यञ्च । किल पूर्ववैरिणाऽपहृतो जातगुरुकरोषेण । ततश्चित्रवेग ! खेचराधिपस्य गृहे वर्धिष्यसे ॥ १३१ ॥
१. अमोघं सफलम् । २. प्रहर्तुमारब्धः प्रहृत इति कर्तरि कः । ३. मेरा-मर्यादा ।। ४. दर्पण व्यामूढः सन् ।
३६०
नवमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org