________________
अद्धाणगमणखिन्ना निव्वियणे एत्थ एगदेसम्मि । भुंजिय वीसमिउं तो पभायकाले वएज्जाह ॥ ४२ ॥ एवं भणिया तेणं सुहभावा वीसमित्तु खणमेगं । सज्झायं काऊणं पारद्धा भोयणं काऊं ॥ ४३ ॥ संनिहियदेवयाए मुणिअणुकंपाए तयं विसं हरियं । भोत्तूण तओ दोन्निवि सज्झायं काउमारद्धा ॥ ४४ ॥ चिंतेइ तओ कविलो हंत विसेणं न किं मयो एए । नूणं मंतबलेणं अवहरिया होज विससत्ती ॥ ४५ ॥ ता रयणीइ अवस्सं मारेयव्वो मए इमो मुंडो । जीवंतम्मि इमम्मि नत्थि ममं जेण संतोसो ॥ ४६ ॥ पत्ताए रयणीए सज्झायं कटु साहुणो सुत्ता । कविलोवि अद्धरत्ते समागओ साहुवहणट्ठा ॥ ४७ ॥ अध्वानगमनखिन्नौ निर्विजनेऽत्रैकदेशे । भुङ्क्त्वा विश्रम्य ततो प्रभातकाले व्रजतम् ॥ ४२ ॥ एवं भणितौ तेन शुभभावौ विश्रम्य क्षणमेकम् । स्वाध्यायं कृत्वा प्रारब्धौ भोजनं कर्तुम् ॥ ४३ ॥ संनिहितदेवतया मुन्यनुकम्पया तकं विषं हृतम् । भुक्त्वा ततो द्वावपि स्वाध्यायं कर्तुमारब्धौ ॥ ४४ ॥ चिन्तयति ततः कपिलो हन्त ! विषेण न किम् मृतावेतौ । नूनं मंत्रबलेनाऽपहता भवेत् विषशक्तिः ॥ ४५ ॥ तस्मात् रजन्यामवश्यं मारयितव्यो मयाऽयं मुण्डः । जीवत्यस्मिन्नास्ति मम येन संतोषः ॥ ४६ ॥ प्राप्तायां रजन्यां स्वाध्यायं कृत्वा साधू सुप्तौ । कपिलोऽपि अर्धरात्रे समागतः साधुवधनार्थः ॥ ४७ ॥
१. निर्विजने एकान्ते । २. विमर्शेऽत्राव्ययमिदम् । ३. मृतौ । ४. कृत्वा ।
३४६
नवमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org