________________
आसि मह गरुयचिंता धूया जं पुरिसवेसिणी जाया । न य इच्छइ किंचि वरं कहमेयमहं करिस्सामि ? ॥ ११३ ॥ सुंदरमेयं जायं जाईसरणं इमीए जं जायं । अम्हं चिय अब्भुदओ अब्भुदओ उब्भिन्ने पाणियं पडियं ॥ ११४ ॥ अन्नं च । पुरिसेहिं मज्झ सिटुं हत्थिभए जेण मोइया एसा । सो भाणुमइपुत्तो चित्तगई नाम वरकुमरो ॥ ११५ ॥ तस्सेव देमि एयं जइ इच्छा अत्थि तम्मि एआए ? । तत्तो चंपगमाला हरिसियचित्ता इमं भणइ ॥ ११६ ॥ जोगो च्चिय सो कुमरो इमाइ पवराइ मज्झ धूयाए । एईएवि संजाओ अइगुरुओ तम्मि अणुराओ ॥ ११७ ॥ किंतु निसुणेसु सामिय ! रन्नो कणगप्पहस्स एयस्स । भाणुगइणो य रण्णो परोप्परं गरुयवेति ॥ ११८ ॥
आसीत् मम गुरुकचिन्ता दुहिता यत् पुरुषद्वेषिणी जाता । न चेच्छति किञ्चिद्वरं कथमेतदहं करिष्यामि ? ॥ ११३ ॥ सुन्दरमेतज्जातं जातिस्मरणमस्या यज्जातम् । आवयोरेवाऽभ्युदय उद्भिन्ने पानीयं पतितम् ॥ ११४ ॥ अन्यञ्च । पुरुषैर्मम शिष्टं हस्तिभये येन मोचितैषा । स भानुम( ग )तिपुत्रश्चित्रगतिर्नामा वरकुमारः ॥ ११५ ॥ तस्यैव ददामि एनां यद्येच्छाऽस्ति तस्मिन्नेतस्याः । ततश्चम्पकमाला हर्षितचित्तेदं भणति ॥ ११६ ॥ योग्यश्चैव स कुमारोऽस्याः प्रवराया मम दुहितुः । एतस्याऽपि सञ्जातोऽतिगुरुकस्तस्मिन्ननुरागः ॥ ११७ ॥ किंतु निशृणु स्वामिन् ! राज्ञः कनकप्रभस्यैतस्य । भानुगतेश्चराज्ञः परस्परं गुरुकवैरमिति ॥ ११८ ॥ १. उद्भिन्ने-अङ्कुरितमात्रे पानीयं जलवृष्टिर्यथा गुणावहा तथेत्यर्थः ।
२७४
सप्तमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org