________________
तत्तो य भणइ देवी नायव्वो सो मए कहं भयवं ! । कहवा पाणिग्गहणं होही मह तेण समयंपि ? ॥ ५९ ॥ अह केवलिणा भणियं निसुणसु जत्ताए जिणवरिंदस्स । उम्मिट्टकरिवराओ मोइस्सइ जो तुमं भद्दे ! ॥ ६० ॥ सो चेव य नायव्वो एसो सो पुव्ववल्लहो मज्झ । पुणरवि विसेसदसणमेवं तुह होहिही तेण ॥ ६१ ॥ युग्मम् ॥ तुह माउलधूयाए पाणिग्गहणम्मि कणगमालाए । काउं तीए रूवं एही सो मित्तकज्जेण ॥ ६२ ॥ जो तत्थ कणगमालारूवो होही स पुव्वदइउत्ति । नायव्वो नीसंकं भद्दे ! चंदप्पभे ! तुमए ॥ ६३ ॥ तयणंतरं च होही पाणिग्गहणंपि तेण सह तुज्झ । जाईसरणेण तुम सुमरिस्ससि मह इमं वयणं ॥ ६४ ॥
ततश्च भणति देवी ज्ञातव्यः स मया कथं भगवन् ! । कथं वा पाणिग्रहणं भविष्यति मम तेन समकमपि ? ॥ ५९॥ अथ केवलिना भणितं निशृणु यात्रायां जिनवरेन्द्रस्य । उन्मिष्टकरिवरात् मोक्ष्यति यस्त्वं भद्रे ! ॥ ६० ॥ स एव च ज्ञातव्य एषः स पूर्ववल्लभो मम ।। पुनरपि विशेषदर्शनमेवं तव भविष्यति तेन ॥ ६१ ॥ युग्मम् ॥ तव मातुलदुहितुः पाणिग्रहणे कनकमालायाः । कृत्वा तस्या रूपमेष्यति स मित्रकार्येण ॥ ६२ ॥ यस्तत्र कनकमालारूपो भविष्यति स पूर्वदयितेति । ज्ञातव्यो निःशङ्क भद्रे । चन्द्रप्रभे ! त्वया ॥ ६३ ॥ तदनन्तरञ्च भविष्यति पाणिग्रहणमपि तेन सह तव । जातिस्मरणेन त्वं स्मरिष्यति ममेदं वचनम् ॥ ६४ ॥ १. स्मरिष्यसि ।
सुरसुन्दरीचरित्रम्
सप्तमः परिच्छेदः
२६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org