________________
विज्जाहरीहिं किंवा मह कजं किंव अन्नजुबईहिं । सोहग्गनिहाणाए पत्ताए इमाए महिलाए ? ॥ १९२ ॥ एवं विचिंतिउणं अवहरिओ धणवई इमेणं तु । नेऊण भरहखित्ते मुक्को उ विणीयनयरीए ॥ १९३ ।। पच्छाइय नियरुवं धणवइरुवं विहित्तु विजाए । वसुमइसुरयासत्तो एसो सो चिठ्ठई एत्थ ॥ १९४ ॥ सोवि हु धणवइवणिओ विणीयनयरीए पाविओ वरओ । दऔं अउव्वनयरिं विम्हियहियओ विंचितेइ ॥ १९५ ॥ का एसा वरनयरी कत्थ व सा मेहलावई नयरी । किं केण व अवहरिओ पेच्छामि व सुमिणयं एवं? ॥ १९६ ॥ एवं विचिंतयंतो बाहिं नयरीए जाव परिभमई । तावय पवरुज्जाणे समोसढो केवली दिट्ठो ॥ १९७ ॥
विद्याधरीभिः किं वा मम कार्यं किं वाऽन्ययुवतीभिः । सौभाग्यनिधानायाः प्राप्ताया अस्याः महिलायाः ? ॥ १९२ ॥ एवं विचिन्त्य अपहृतो धनपतिरनेन तु । नीत्वा भरतक्षेत्रे मुक्तस्तु विनीतनगर्याम् ।। १९३ ॥ प्रच्छादितनिजरूपं धनपतिरूपं विधाय विद्यया । वसुमतीसुरतासक्त एष स तिष्ठत्यत्र ॥ १९४ ॥ सोऽपि खलु धनपतिवणिग् विनीतनगर्यां प्राप्तो वराकः । दृष्ट्वाऽपूर्वनगरी विस्मयहृदयो विचिन्तयति ॥ १९५ ॥ का एषा वरनगरी कुत्र वा सा मेखलावती नगरी । किं केन वाऽपहृतः प्रेक्षे वा स्वप्नमेतद् ? ॥ १९६ ॥ एवं विचिन्तयन् बर्हि नगर्यांयावत् परिभ्राम्यति । तावच्च प्रवरोद्याने समवसृतः केवली दृष्टः ॥ १९७ ॥ १. अपहृतः । २. विनीता-अयोध्या। ३. वरओ-वराकः । ४. रीइ । ५. समवसृतः आगतः ।
सुरसुन्दरीचरित्रम्
षष्ठः परिच्छेदः
२४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org