________________
७२
षड्भाषाचन्द्रिकायां कुतूहलपरः । कोहलपरो । अत्रैव 'त्वदुत उपरिगुरुके' इत्यतः 'तु' 'उतः' इत्यधिकृत्य
हश्चौत्कुतूहले ॥१।२। ६५ ।।
अत्र उत ओत्वं तु भवति तसन्नियोगेन ऊतो हखश्च । इत्योत्वे हखे च । कोहल्लपरो । कोउहल्लपरो । अत्र तैलादित्वाद् द्वित्वम् ।।
निषण्ण उमः ॥ १।३।६॥
'तु मयूर-' इत्यतः 'तु' इत्यनुवर्तते । अस्मिन्नादेरचः परेण साज्झला सहितस्य उम इत्यादेशः स्याद्वा । णुमण्णो । णिसण्णो ॥
अस्तोरखोरचः॥१।३ । ७॥
अधिकारोऽयम् । 'लोहललाङ्गललाले वा' इति यावत् । इत ऊर्ध्वं यदनुक्रमिष्यते तदस्तोरसंयुक्तस्याखोरनादौ वर्तमानस्याचः परस्य भवतीति वेदितव्यम् ।
अथ कवर्गस्यादेशाः ॥ खोपुष्पकुजकर्परकिले कोः॥ १।३।१२॥
अपुष्पवाचिनि कुनशब्दे कपरकिलयोश्च कोः कवर्गस्य खकारो भवति । वबयोरभेदाद् 'लवरामधश्च' इति बलोपे । खुजो । पुष्पे तु कुजो । खप्परो । खिलओ । अत्र 'खार्थे तु कैश्च' इति कः ॥
छागशृङ्खलकिराते लकंचाः॥१।३।१३॥ 'कोः' इत्यनुवर्तते । एषु कवर्गस्य यथाक्रमं लकच ईत्यादेशा भवन्ति । छागः । छालो । किरातः । चिलाओ । पुलिन्दपर्याय एव । कामरूपिणि तु नेष्यते । णमिमो हरकिराअं। चिलाओ । इत्यत्र हरिद्रादिपाठाद्रेफस्य लत्वम् ॥
१ इत्यधिकृत्य R., M. २ कोउहळपरो। M. ३ M. drops कोउहल्लपरो। ४ वा स्यात् । M., T. ५ M. drops यत्. M. and T. drop अथ. ७ रभेदन्यायेन M. ८ खप्परओ for खिल्लओ. ९ कप्रत्ययः for कश्चेति कः M. १० लकचम् M. ११ इत्येते आदेशा भवन्ति M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org