SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । उकारादेशाः। ६५ बहुलाधिकारात् क्वचिदात्वमपि । विद्रुतः । वित्थाओ । 'दोदोनुत्साहोसन्नऊच्छसि' इत्यतः 'ऊत्' इत्यधिकृत्य 'दुरो रलुकि तु' इत्यतः 'तु' इति च । सुभगमुसले ॥१।२ । ६४ ॥ एतयोरुत ऊत्वं वा स्यात् । मूसलो। मुसलो । सूहवो । सुहओ । अत्र 'ऊत्वे सुभगदुर्भगे वः' इति कोर्वत्वम् ॥ 'हश्चौत्कुतूहले' इत्यतः 'ओत्' इत्यधिकृत्य स्तौ ॥ १।२।६६॥ संयुक्ते परे आदेस्त ओत्वम् । मुद्गरः । मोग्गरो । पुद्गरः । पोग्गरो । इत्यादि । एवं संयुक्ते परे उत ओत्वं सर्वत्र संचारणीयम् । नात्र लाक्षणिकस्य उत ओत्वम् । किं त्वलाक्षणिकस्यैव । 'सूक्ष्मेद्वोतः' इति ज्ञापकात् । अन्यथा तत्रापि 'संयोगे' इति इखे कृते अनेनैवोत्वं स्यात् । न च विकल्पार्थ तत् सूत्रम् । तदा 'सूक्ष्मेद्वा' इत्येव ब्रूयान्न तु 'ऊतः' इति ॥ ईदुयूढे ॥ १।२। ६९ ॥ 'ऊतः' इत्यनुवर्तते । उद्यूढे ऊत ईत्वं स्यात् । उव्वीढो॥ उत्कण्डूयतिहनूमद्वातूले ॥१।२। ७० ॥ कण्डूयतौ धातौ हनूमद्वातूलयोश्चादेरूत उत्वं लित् स्यात् । कण्डूयनपरः । कण्डुअणपरो । हनुमान् । हणुमन्तो । अत्र 'मन्तमण-' इत्यादिना मतुपो मन्तादेशः । वातूलः । वाउलो ॥ ओलस्थूणातूणमूल्यतूणीरकूर्परगुलूचीकूश्माण्डीताम्बूलीषु ॥१।२।७३ ॥ १T. has स्यात् after it. २ पोग्गळो M., T. ३ आदेरुत for उत My., P. ४ भवति M. ५ अरो M., T. ६ मन्तादेशो वा स्यात् T. ७ M. makes two Sutras-'ओत् स्थूणात् स्थूणे ।' 'वा' इत्यनुवर्तते । 'ऊतः' इति च । अनयोरूत ओत्वं वा स्यात् । तोणो । तूणो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy