SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां 'ईतः' इत्यनुवर्तते । अत्र ईत उत्वं लित् स्यात् । जीर्णः । जुण्णो । कचिन्न भवति । जिण्णे भोअणमेत्ते । जीर्णे भोजनमात्रे । अत्र 'उत्करवल्ली-' इत्यादिना मात्रचोस्य एत्वम् । 'तीर्थे ह्यूल' इत्यतः 'ऊल्' इत्यधिकृत्य विहीनहीने वा ॥ १।२ । ४६ ॥ - 'ईतः' इत्यनुवर्तते । अनयोरीत ऊद्वा स्यात् । विहूणो । बिहीणो' । हूणो । हीणो । 'अनयोः' इति । किम् । प्रहीणो। कीदृश पीयूषेद्देशेषु 'एल्पीड--'इत्यादिना ईत एत्वम् । 'दृश्यक्सविनि' इति ऋतो रिः । केरिसो । एरिसो। पिअँप्पेऊसो । प्रियपीयूषः । अत्र यलोपः । बहुलाधिकारात् पीडनीडयोरेत्वस्य विकल्पः। गअपेडो । गअपीडो । नेडो । नीडो । आमेलो । आवेलो । आपीडः । अत्र बडिशादिपाठाड्डस्य लः। 'नीपापीडे मो वा' इति पस्य वा मः । घडिशा नेडोरात् पी पिप्पे अथोकारस्यादेशाः। . त्वदुत उपरिगुरुके ॥ १।२। ५८ ॥ कप्रत्ययान्तयोरनयोरादेरुत अत्वं तु भवति । गरुओ । गुरुओ। कप्रत्ययान्तपरिग्रहात् केवले न भवति ॥ मुकुलादौ ॥ १।२ । ५९ ॥ .. 'उतः' इत्यनुवर्तते । 'अत्' इति च । मुंकुलादिष्वादेरुतोत्वं तु भवति । मैउलो । मुउलो । मुकुलः । मउरो। मुउरो । मुकुरः । इत्यादि । मुकुलादि-मुकुल । मुकुर । मुकुट । अगुरु । गुलूची । गुर्वी । युधिष्ठिर । सौकुमार्य । इत्यादि । मकुटशब्दः संस्कृतेप्यस्ति । १ ऊत्वं वा स्यात् M. २ M. has विहीनः after it. ३ M. has हीनः after it. ४ M. has प्रहीनः after it. ५ 'दृशे M. ६ पिअपेऊसो P. प्रत्ययान्ते गुरुशब्दे उपरिशब्दे चादे° T. ८ रुतः for° रादेः M. ९ गुरुओ। गरुओ। M. १० 'तु' इति च after this in M. ११ भवति तु for तु भवति T. १२ मुउलो । मउलो। M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy