________________
षड्भाषाचन्द्रिकायां
क्लीबे गुणगाः ॥ १।१। ५२ ॥ _ 'वा' इत्यनुवर्तते । गुणादयः शब्दाः नपुंसके वा प्रयोक्तव्याः । गुणो । गुणं । मंडलग्गो । मंडलम्गं । गुणादि-गुण । देव । मंडलाग्र । खड्ग । कण्ठे । बिन्दु । कररुह । वृक्ष । इत्यादि । पृष्ठशब्दे
'स्त्रियामिमाञ्जलिगाः ॥ १।१। ५३ ॥
ईमान्ता अञ्जल्यादयश्च शब्दाः स्त्रीलिङ्गे वा प्रयोक्तव्याः । इत्यञ्जल्यादिपाठात् स्त्रीलिङ्गेपि प्रयोगः । पिट्ठी । पिढे । अत्र 'इल्कृपगे' इत्यतः 'इल्' इत्यधिकृत्य 'शृङ्गमृगाङ्कमृत्युदृष्टमसृणेषु वा' इत्यतः 'वा' इति 'ऋतोत्' इत्यतः 'ऋतः' इति च __पृष्ठेनुत्तरपदे ॥ १।२ । ७८ ॥
पृष्ठशब्देनुत्तरपदे ऋत इत्वं वा स्यात् । पक्षे 'ऋतोत्' इत्यत्वम् । इत्वं स्त्रियामेवेत्येके । 'अनुत्तरपदे' इति किम् । महिपढें । अञ्जल्यादि-अञ्जलि । बलि । निधि । प्रश्न । रश्मि । अक्षि । ग्रन्थि । विधि । कुक्षि । चौर्य । पृष्ठ । इत्यादि । इमान्ता इत्यत्र 'पृथ्वादिभ्य इमनिज्वा' इति य इमनिच् यश्च 'त्वस्य तु डिमात्तणौ' इति त्वप्रत्ययादेश इमनिच् तयोर्द्वयोरपि तन्त्रेण ग्रहणम् । तेनोभयोरपि विकल्पेन स्त्रीत्वम् । त्वादेशस्य नित्यं स्त्रीत्वमेवेच्छन्त्येके ॥
निष्पत्योरोत्परी माल्यस्थोर्वा ॥ १।२।१॥
निर् प्रति इत्येतावुपसर्गौ माल्यशब्दे स्थाधातौ च परे ओ परि इत्येतद्रूपौ यथासंख्यं वा स्तः । निर्माल्यम् । ओमलं । णिम्मलं । प्रतिष्ठितः । परिट्टिओ। पइडिओ ॥
आदेः ॥ १।२।२॥ 'आदेः' इत्यधिकारः 'यमस्तोरखोरचः' इति सूत्रात् प्रागेव वेदितव्यः ॥
१ कन्द M. २ M. has 'वा' इत्यनुवर्तते before it. ३ पिठी My. ४ इत्यधिकृत्य M. ५ 'ऋतोत्' इति च M. ६ मेवत्येके M. ७ भवतः M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org