________________
घड्भाषाचन्द्रिकायां चलयोरचलपुरे ॥१।४ । ११६ ॥ _ 'व्यत्ययः' इत्यनुवर्तते । अचलपुरशब्दे चलयोर्व्यत्ययः स्यात् । अचलपुरधर्मः । अलअपुरधम्मो ॥
ह्ये ह्योर्वा ॥ १।४ । ११७ ॥
ह्यशब्दे हकारयकारयोर्व्यत्ययो वा स्यात् । सह्यः । सय्हो । पक्षे । सज्झो । इत्यादि ॥
लघुके लहोः॥१।४ । ११८॥
'लघुकशब्दे घस्य हत्वे लैंकारहकारयोर्व्यत्ययो वा स्यात् । हलुओ। पक्षे । लहुओ । घस्य व्यत्यये कृते पदादित्वाद्धत्वं न भवतीति हकरणम् ।।
रलोहरिताले ॥१।४।११९ ॥ अत्र रलोळत्ययः स्यात् । हळिआरो।। दर्वीकरनिवहौ दव्विरअणिहवौ तु ॥ १।४ । १२० ॥
दर्वीकरनिवहशब्दौ यथासंख्यं दव्विरअणिहवौ तु भवतः । दव्विरओ । णिहवो ॥ सज्जन सु इति स्थिते 'लोपः' इत्यधिकृत्य
अन्त्यहलोश्रदुदि ॥ १।१।२५॥
शब्देष्वन्त्यहलोन्त्यव्यञ्जनस्य लोपः स्याच्छूदित्यव्ययमुदित्युपसर्ग च वर्जयित्वा । इति सज्जनशब्दस्य समासत्वात् समासे पदविभक्त्यपेक्षया वाक्यविभक्त्यपेक्षया चान्त्यत्वमनन्त्यत्वं च भवतीति न्यायेन यदा पदविभक्तिस्तदा तलोपे सजणो । यदा वाक्यविभक्तिस्तदा लोपाभावे सज्जणो । एवं तद्गुणादयः ॥ निर्दुरि वा ॥ १।१ । २६ ॥ निर् दुर् इत्येतयोरुपसर्गयोरन्त्यहलो लोपो वा स्यात् । निस्सहः । १ °वुर' R. २ M. has लघुशब्दे घस्य हत्वे before it. ३ M. drops लघुकशब्दे घस्य हत्वे. ४ अत्र लहयोः for लकारहकारयोः M. ५ वा व्यत्ययः M. ६ तलोपाभावे M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org