SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । तु समृद्ध्यादौ ॥ १।२।१०॥ __समृद्धयादिष्वादेरवर्णस्य दीर्घो वा स्यात् । इति समृद्ध्यादिपाठाद्वा दीर्थे । सारिच्छो । सरिच्छो । सदृक्षः ॥ थ्यश्चत्सप्सामनिश्चले ॥१।४ । २३ ॥ निश्चलव्यतिरिक्तानां थ्यादीनां छः स्यात् । भुक्तपथ्यः । भोत्तपच्छो । पश्चिमः । पच्छिमो । मत्सरः। मच्छरो । अवीप्सः । अविच्छो । इत्यादि । 'अनिश्चले' इति किम् । णिच्चलो । अत्र 'कग-' इति शलोपशेषद्वित्वे द्यय्ययों जः॥१।४।२४॥ एषां जः स्यात् । अनवद्यः । अणवज्जो । द्योतः । जोओ। जय्यः। . जज्जो । क्षय्यः । खज्जो । पर्यायः । पज्जाओ । इत्यादि । ध्यह्योझल् ॥१।४।२६ ॥ __ अनयोझत्वं लित्स्यात् । ध्यः । उपाध्यायः । उवज्झाओ। अत्र 'पो वः' । 'संयोगे' इति हर्क्सश्च । विध्यः । विज्झो । मध्यमः । मज्झिमो । अत्र 'मध्यमकतमे च' इत्यतः इः । ह्यः । सह्यः । सज्झो । इत्यादि ॥ तस्याधर्तादौ टः॥१।४ । ३०॥ तस्य टः स्यात् धूर्तादीन् वर्जयित्वा । कैवर्तः । केवट्टो । संवर्तितः । संवट्टिओ । 'अधूर्तादौ' इति किम् । धूर्तः । धुत्तो । धूर्तादि धूर्त । संवर्तन । वार्ता । प्रवर्तन । मुहूर्त । मूर्त । आवर्तक । संवर्तक । वार्तिक । वर्तिका । निवर्तन । आवर्तन । विवर्तन । प्रवतक । मूर्ति । उत्कर्तित । निवर्तक । कीर्ति । कार्तिक । इत्यादि । १ य M. २ छो भवति M. ३ भुत्सपच्छो M. ४ लोपशेषद्वित्वे M. ५ M. has इति वत्वम् after it. ६ M. drops च. ७ संवट्टओ. M. ८ धूर्तसंवर्तवार्ताश्च मूर्तवर्तकवार्तकाः । आवर्तनमुहूतौ च प्रवर्तकनिवर्तकौ ॥ कीर्तिः कार्तिकमूर्ती च उत्कीर्त्यादीनि तद्गणे ॥ M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy