________________
३२
षड्भाषाचन्द्रिकायां _ 'खल्' इत्यनुवर्तते । अनयोर्नाम्नि संज्ञायां खल् स्यात् । लित्त्वानित्यम् । पोक्खरक्खो । पुष्कराक्षः । अत्र 'हश्चौत्कुतूहले' इत्यत 'ओत्' इत्यनुवर्तते । 'त्वदुत उपरिगुरुके' इत्यत 'उतः' इति च ।
स्तौ ॥१।२ । ६६॥ युक्ते परे उत ओत्वं स्यात् । इत्योत्वम् । स्के । स्कन्धः । खंधो ॥ क्षः ॥ १।४।८॥ 'खल्' इत्यनुवर्तते । क्षस्य खल् स्यात् । क्षयः । खओ। विचंक्षणः । विअक्खणो ॥ स्कन्दतीक्ष्णशुष्के तु खोः ॥१।४।१०॥ 'खल्' इत्यनुवर्तते । एषु खोरादेः संयुक्तस्य खो वा स्यात् ।। खंदो । पक्षे 'कग-'इति सलोपे अचः परत्वाभावान्न शेषस्य द्वित्वम् । कन्दो । तीक्ष्णः । तिक्खो । पक्षे तिण्हो । अत्र 'इनष्ण-' इत्यादिना क्ष्णस्य ग्रहः । शुष्कः । सोको । पक्षे सोक्खो।
स्तम्भे ॥१।४।११॥ 'खल्' इत्यनुवर्तते । 'तु' इति च 'खोः' इति च । स्तम्भे खोरादेः संयुक्तस्य खकारो वा स्यात् । खंभो । पक्षे 'कग---'इति सलोपे तम्भो।
ल्थोस्पन्दे ॥१।४ । १२ ॥ 'खोः' इत्यनुवर्तते । स्पन्दाभाववृत्तौ स्तम्भे खोरादेः संयुक्तस्य थकारो भवति ॥ लित्वान्नित्यम् । थम्भो । सात्त्विकभावः । ... .स्त्यानचतुर्थे च तु ठः॥१। ४ । १३ ॥
१ ख for खल् M., R. २ M. and R. drop लित्वानित्यम्, ३ ख for खल् M., R. ४ M. drops तिण्हो. ५ सुक्खो M. ६ सुक्को
M. ७ संयुक्तस्य खोः for खोरादेः संयुक्तस्य R. ८ भवति M. ९ थकारः स्यात् My., P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org