________________
२७८
षड्भाषाचन्द्रिकायां अम्हहं । अस्मभ्यम् । उसि 'ङस्ङसिना 'महुमज्झ' । महु । मज्झ । मम । आमि भ्यवत् । अम्हहं । ङौ । मई । सुपि
सुपाम्हासु ॥३।४ । ५०॥ अस्मदः सुपा सह अम्हासु इति भवति । अम्हासु । अस्मासु ।
इति युष्मदस्मच्छब्दौ ।
अथाव्ययेषु विशेषाः कथ्यन्ते ॥ कथंयथातथि डिहडिधडिमडेमास्थादेः॥३।३।८॥
अपभ्रंशे कथमादिषु थकारादेरवयवस्य इह इधै इम एम इति चत्वार आदेशा डितो भवन्ति । किह । किध । किम । केम । कथम् । जिह । जिध । जिम । जेम । यथा । तिह । तिध । तिथ । तेम । तथा ॥
यावत्तावत्युम्महिम्मा वादेः॥३।३।११॥ - यावत् तावदित्यव्यययोः वकारादेरवयवस्य उं महिम् मा इति त्रय आदेशा भवन्ति । जाउं । जामहिं । जाम । यावत् । ताउं । तामहिं । ताम । तावत् ॥
उत्तहे त्रलः ॥३।३।१३ ॥ सर्वादेः सप्तम्यन्तात् परस्य त्रत्प्रत्ययस्य डित् एत्तहे इत्यादेशो भवति । सव्वेत्तहे । सर्वत्र ॥
यत्तदो डइ ॥३।३। १४ ॥ यत्तद्भ्यां परस्य त्रलः अइ इति स्यात् । जइ । तइ । यत्र । तत्र ॥ कुत्रात्रे च उत्थु ॥३।३। १५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोः स्थितस्य चकाराद्यत्तदः परस्य च १ स्यात् T. २ तथा T. ३ डितः स्युः T. ४ स्युः T. ५ T. drops अपभ्रंशे. ६ T. drops स्थितस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org